________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
जाति, १६. निग्रहस्थान ।
अर्थोपलब्धिहेतुः प्रमाणम् । प्रमीयते ज्ञानं अनेन इति प्रमाणम् । ज्ञानस्य जनकं द्विविधम् । अचेतनं ज्ञानं च ।
प्रमेयं प्रमाणजन्यज्ञानेन ग्राह्यं वस्तु । दोलायमाना प्रतीतिः संशयः । प्रयोजनमभीष्टं साधनीयं फलम् दृष्टान्तो वादिप्रतिवादिसंमतं निदर्शनम् । सिद्धान्तः सर्वदर्शनसम्मतशास्त्रप्रभृतिः । अवयवाः पक्षादयोऽनुमानस्याङ्गानि । संदेहादूर्ध्वंमन्वयधर्मचिन्तनं तर्कः, स्थाणुरत्राधुना संभवतीति । स्थाणुरेवायमित्यवधारणं निर्णयः । गुरुणा समं तत्त्वनिर्णयार्थं वदनं वादः । परेण समं जिगीषया जल्पनं जल्पः । अपरामृष्टवस्तुतत्वं मौखर्यमात्रं वितण्डा । हेतुवदाभासमाना हेत्वाभासा न सम्यग्घेतवः । परवचनविघातार्थविकल्पोत्पादनानि छलानि । जातयोऽसम्यग्दुषणानि । यैरुक्तैर्वक्तानिगृह्यते तानि निग्रहस्थानानि ।
५५९
(६) नैयायिकदर्शने चत्वारि प्रमाणानि सन्ति । तद्यथा :- १. प्रत्यक्षं २ अनुमानं, ३. उपमानं, ४. शाब्दम् च । (७) इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (न्यायसूत्र - १1१1४ ) (८) इन्द्रियं चक्षुरादिमनः पर्यन्तम् । रूपादयस्तदर्थाः ।
(९) सन्निकर्ष: प्रत्यासत्ति: इन्द्रियस्य प्राप्तिः संबन्ध: । स च षोढा । तद्यथा १. संयोगः, २. संयुक्तसमवायः, ३. संयुक्तसमवेत समवायः, ४. समवायः, ५. समवेत समवायः, ६. विशेषणविशेष्यभावः ।
1
(१०) अव्यपदेश्यं नामकल्पनारहितम् । तस्मिंस्तदिति ज्ञानमव्यभिचारि । व्यवसीयतेऽनेनेति व्यवसाय: = विशेषः, विशेषजनितं व्यवसायात्मकं अथवा व्यवसायात्मकं निश्चयात्मकम् ।
(११) यदा प्रत्यक्षं प्रमाणम्, तदा ज्ञानं प्रत्यक्षप्रमाणफलम् । यदा ज्ञानं प्रमाणम्, तदा हानादिबुद्धयः फलम्
(१२) प्रत्यक्षं द्वेधा १. अयोगिप्रत्यक्षं, २. योगिप्रत्यक्षं च । यदस्मदादीना मिन्द्रियार्थसन्निकर्षाज्ज्ञानमुत्पद्यते, तदयोगिप्रत्यक्षम् । तदपि द्विविधं निर्विकल्पकं सविकल्पकं च । तत्र वस्तुस्वरुपमात्र भासकं निर्विकल्पकं यथा प्रथमाक्षसन्निपातजं ज्ञानम् ।
संज्ञासंज्ञिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकं यथा देवदत्तोऽयं दण्डी ।
योगिप्रत्यक्षं तु देशकालस्वभावविप्रकृष्टार्थग्राहकम् । तदपि द्विविधं युक्तानां प्रत्यक्षं वियुक्तानां च ।
तत्र समाध्यैकाग्र्यवतां योगधर्मेश्वरादिसहकृतादात्मान्तः करणसंयोगादेव बाह्यार्थसंयोगनिरपेक्षं यदशेषार्थग्रहणं, तद्युक्तानां प्रत्यक्षम् । एतच्च निर्विकल्पकमेव भवति ।
असमाध्यवस्थायां, योगिनामात्ममनोबाह्येन्द्रियरूपाद्याश्रयचतुष्कसंयोगाद्रूपादीनां, आत्ममनः श्रौत्रत्रयसंयोगाच्छब्दस्य, आत्ममनोद्वयसंयोगात्सुखादीनां च यदग्रहणं तद्वियुक्तानां प्रत्यक्षम् । तच्च निर्विकल्पकं सविकल्पकं च प्रतिपत्तव्यम् ।
(१३) तत्पूर्वकं त्रिविधमनुमानं, पूर्ववच्छेषवत्सामान्यतोदृष्टं च । पूर्ववत् = केवलान्वयी अनुमानम्। शेषवत् केवलव्यतिरेकी अनुमानम् । सामान्यतोदृष्टम् अन्वयव्यतिरेकी अनुमानम् । पूर्वं कारणं विद्यते यत्रानुमाने तत्पूर्ववत् अर्थात् यत्र कारणेन कार्यमनुमीयते, तत्पूर्ववत् यथा विशिष्टमेघोन्नत्या भविष्यति वृष्टिरिति । शेषं कार्यं तदस्यास्ति तच्छेषवत् अर्थात् यत्र कार्येण कारणमनुमीयते तत्शेषवत् यथा नदीपूर दर्शनाद् वृष्टिः । यत्र अकार्यकारणभूतेनाविनाभाविना लिङ्गेन लिङ्गिनोऽवगमः । तत्सामान्यतोदृष्टानुमानम् यथा बलाकया सलिलस्येति।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org