________________
५६०
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
(१४) पूर्वप्रतिपत्त्या तुल्या प्रतिपतिर्यतो भवति तत्पूर्ववदनुमानम् । शेषवन्नाम परिशेषः, स च प्रसक्तानां प्रतिषेधेऽन्यत्र प्रसङ्गासंभवाच्छिष्यमाणस्य संप्रत्ययः । यत्र धर्मी साधनधर्मश्च प्रत्यक्षः साध्यधर्मश्च सर्वदाऽप्रत्यक्षः साध्यते तत्सामान्यतोदृष्टम् । (१५) प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् उपमानम् । अथवा प्रसिद्धसाधर्म्यात्साध्य-साधनमुपमानम्।
(१६) शाब्दं तु प्रमाणमाप्तोपदेशः । आप्त एकान्तेन सत्यवादी हितश्च तस्योपदेशो वचनमाप्तोपदेशः ।
(१७) प्रमेयं तु प्रमाणफलम्, तच्च द्वादशविधम् । आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधं प्रमेयम् । (१८) इच्छाद्वेष प्रयत्नसुखदुःखज्ञानादीनामश्रयः आत्मा । (१९) तद्भोगायतनं शरीरम् । (२०) पञ्चेन्द्रियाणि घ्राणरसनचक्षुस्त्वक्श्रोत्राणि । (२१) पञ्चार्था रुपरसगन्धस्पर्शशब्दाः ।
(२२) इन्द्रियार्थसन्निकर्षे सत्यपि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तत्सर्वविषयं, अणु वेगवदाशुसंचारि -- नित्यं च । (२३) वाग्मनः कायव्यापारः शुभाशुभफलः प्रवृत्तिः । (२४) रागद्वेषमोहास्त्रयो दोषाः । (२५) देहेन्द्रियादिसंघातस्य प्राक्तनस्य त्यागेन संघातान्तरग्रहणं प्रेत्यभावः । (२६) प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं एष एव संसारः तु गौणम् । (२७) पीडासंतापस्वभावजं दुःखम् । (२८) आत्यन्तिको दुःखवियोगोऽपवर्गः।
(२९) यः संदिग्धोऽनेककोटिपरामर्शो प्रत्ययो विमर्शः संशयः ।
(३०) यदर्थित्वात् प्रवर्तते तत्प्रयोजनम् । अथवा यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ न्यायसूत्र१।१।२४।।
(३१) यो न विवादविषयः स दृष्टान्तः। (३२) शास्त्र प्रतिपादितनियमः सिद्धान्तः । सः चतुर्विधः । तथाहि - १ सर्वतन्त्रसिद्धान्तः, २. प्रतितन्त्रसिद्धान्तः, ३. अधिकरणसिद्धान्तः, ४. अभ्युपगमसिद्धान्तश्च । (३३) सर्वेषां शास्त्राणां संप्रतिपत्तिविषयः सर्वतन्त्रसिद्धान्तः । (३४) समानतन्त्रप्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः । (३५) यस्य सिद्धान्तस्य प्रक्रियमाणस्य, प्रतिज्ञार्थस्य प्रसङ्गेनाधिकस्य सिद्धि, सोऽधिकरणसिद्धान्तः।
(३६) प्रौढपादिभिः स्वबुद्ध्यतिशयचिख्यापयिषया यत्किचिद्वस्त्वपरीक्षितमभ्युपगम्य विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः।
(३७) प्रतिज्ञाद्यन्यतमत्वम् अवयवत्वम् । अवयवाः पञ्च । १. प्रतिज्ञा, २. हेतु, ३. दृष्टांत, ४. उपनयः, ५. निगमनं । प्रतिज्ञा पक्षः धर्मर्मिवचनम्,यथा कृशानुमानयं सानुमान् । हेतुः साधनं लिङ्गवचनम्, यथा धूमवत्त्वात् । दृष्टान्त उदाहरणाभिधानम् । तद्विविधम् - १. अन्वयमुखेन, २. व्यतिरेकमुखेन च । उपनयो हेतोरुपसंहारकं वचनम् । यथा धूमवांश्चायम् । निगमनं हेतूपदेशेन साध्यधर्मोपसंहरणम्, धूमवत्त्वात्कृशानुमान्।
(३८) सम्यग्वस्तुस्वरुपानवबोधे किमयं स्थाणुर्वा पुरुषो वेति संदेहः संशयस्तयंस्योपरमे तर्कोऽन्वयधर्मान्वेषणरूपो भवेत् । अथवा अविज्ञाततत्त्वऽर्थे कारणोपपत्तिस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ न्यायसूत्र - १।१।४० ॥
(३९) संदेहतर्काभ्यां उर्ध्वं प्रत्ययो निर्णयः अथवा विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ।। न्यायसूत्र १।१।४१।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org