Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 670
________________ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी ५५७. (४) दुःखं फलभूताः पञ्चोपादानस्कन्धा विज्ञानादयः । त एव तृष्णासहाया हेतुभूताः समुदयः । निःक्लेशवस्था चित्तस्य निरोधः । निरोधहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गः। (५) सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् । (६) संसरन्ति स्थानात्स्थानान्तरं भवाद् भवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः । (७) स्कन्धाः सचेतना अचेतना वा परमाणुप्रचयविशेषाः ते च स्कन्धाः पञ्च प्रकीर्तिताः । तद्यथाविज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, रुपस्कन्धश्च । तत्र रुपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पकं विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः । सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः । संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः संज्ञास्कन्धः । पुण्यापुण्यादिधर्मसमुदाय: संस्कारस्कन्धः पृथिवीधात्वादयो रुपादयश्च रुपस्कन्धः। (८) आत्मात्मीयसंबंधेन परपरकीयसंबंधेन वा यतो रागद्वेषादयः समुद्भवति स समुदयः । (९) परमनिकृष्टः कालः क्षणः, तत्र भवाः क्षणिकः क्षणमात्रावस्थितः । (१०) बौद्धमते सर्वसंस्काराः = सर्वपदार्थाः क्षणविनश्वराः । (११) यदेवार्थक्रियाकारि तदेव परमार्थसद् । (१२) यत् सत् तत् क्षणिकम् । (१३) बौद्धाः द्वादशायतनानि अभिदधते । तद्यथा:- १. चक्षु, २. श्रोत्र, ३. घ्राण, ४. रसन, ५. स्पर्शन, ६. रुप, ७. रस, ८. गंध, ९. स्पर्श, १०. शब्द, ११. मन, १२. सुख-दुःखादि धर्म । (१४) प्रमाणस्य विशेषलक्षणं सामान्यलक्षणाविनाभावीति नियमः । (१५) अविसंवादकं ज्ञानं प्रमाणम् । अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तम् । अर्थव्यापकत्वं च प्रवर्तकत्वेन व्यापि । प्रवर्तकत्वमपि विषयोपदर्शकत्वेन व्यानशे । (१६) एवकारो विशेषणेन विशेष्येण क्रियया च सह भाष्यमाणः क्रमेणायोगान्ययोगात्यन्तायोगव्यवच्छेदकारित्वात्रिधा भवति । (१७) बौद्धदर्शने प्रत्यक्षानुमानलक्षणे द्वे एव प्रमाणे । (१८) नानुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः । (१९) यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था न तत्र प्रकारान्तर संभवः । तद्यथा पीतादौ नीलप्रकारव्यवच्छेदेनानीलप्रकारव्यवस्थायाम् । (२०) प्रतिगतमक्षमिन्द्रियं प्रत्यक्षम् । कल्पनापोढमभ्रान्तं प्रत्यक्षम् । प्रत्यक्षं कल्पनापोढं नामजात्यद्यसंयुक्तम् । (२१) अतस्मिंस्तद्ग्रहो भ्रान्तिः । (२२) प्रत्यक्षं नासद्भूतवस्तुग्राहकं, किं तु यथावत्परस्परविविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणपरिच्छेदकम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712