________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १४, १५, १६, नैयायिक दर्शन
१३५
(३) संशय, (४) प्रयोजन, (५) दृष्टांत, (६) सिद्धान्त, (७) अवयव, (८) तर्क, (९) निर्णय, (१०) वाद, (११) जल्प, (१२) वितंडा, (१३) हेत्वाभास, (१४) छल, (१५) जाति, (१६) निग्रहस्थान। ये १६ तत्त्वो की प्ररुपणा इस अनुसार की गई है।
पदार्थ की उपलब्धि में जो हेतु बनते है उसे प्रमाण कहा जाता है। वे प्रमाण चार प्रकार के है। (ये तीन श्लोक का अन्वय एकसाथ अन्वय होने से उसको विशेषक कहा जाता है।)
व्याख्या-अमुत्रास्मिन्प्रक्रान्ते नैयायिकमते प्रमाणादीनि प्रमाणप्रमेयप्रभृतीनि षोडश तत्त्वानि भवन्ति । तद्यथेत्युपदर्शने । “प्रमाणं च" इत्यादि । तत्र प्रमितिरूपलब्धिर्ज्ञानं येन जन्यते, तज्ज्ञानस्य जनकं कारणं प्रमाणम् । प्रमीयते ज्ञानं जन्यतेऽनेनेति प्रमाणमिति व्युत्पत्तेः । ज्ञानस्य च जनक द्विविधम् । अचेतनं ज्ञानं च । तत्राचेतनमिन्ष्टियतदर्थसन्निकर्षप्रदीपलिङ्गशब्दादिकं ज्ञानस्य कारणत्वात्प्रमाणं, ज्ञानं च-ज्ञानान्तरजन्मनि यद्व्याप्रियते तदपि ज्ञानजनकत्वात्प्रमाणम् । ज्ञानस्याजनकं तु प्रमाणस्य फलं भवेन्न पुनः प्रमाणम् १ । B-51प्रमेयं प्रमाणजन्यज्ञानेन ग्राह्यं वस्तु २ । दोलायमाना प्रतीतिः संशयःB-52 । चकारास्त्रयोऽपि प्रमाणादीनामन्योन्यापेक्षया समुञ्चयार्थाः ३ । B-5प्रयोजनमभीष्टं साधनीयं फलम् ४ । B-5'दृष्टान्तो वादिप्रतिवादिसंमतं निदर्शनम् ५ । अपिः समुञ्चये । अथ शब्द आनन्तर्ये । B-55सिद्धान्तः B-56सर्वदर्शनसंमतशास्त्रप्रभृतिः ६ । B-57अवयवाः पक्षादयोऽनुमानस्याङ्गानि ७ । संदेहादूर्ध्वमन्वयधर्मचिन्तनं तर्क:B-58, स्थाणुरत्राधुना संभवतीति ८ । स्थाणुरेवायमित्यवधारणं निर्णय:B-59 । द्वन्द्वे तर्कनिर्णयौ ९ । गुरुणा समं तत्त्वनिर्णयार्थं वदनं वाद:B-60 १० । परेण समं जिगीषया जल्पनं जल्प:B-61 ११ । अपरामृष्टवस्तुतत्त्वं मौखर्यमानं वितण्डाB-62 १२ । हेतुवदाभासमाना हेत्वाभासाB-63 न सम्यग्घेतव इत्यर्थः १३ । परवचनविघातार्थविकल्पोत्पादनानि छलानिB-64 १४ । जातयोऽसम्यग्दुषणानिB-65 १५ । यैरुक्तैर्वक्ता निगृह्यते तानि निग्रहस्थानानिB-66 १६ । इति । एषामनन्तरोक्तानां प्रमाणादीनामेवमित्थं प्ररूपणा स्वरूपप्रदर्शना भवति । तत्रादौ प्रमाणस्य प्ररूपणां चिकीर्षुः प्रथमतस्तस्य सामान्यलक्षणं संख्यां च प्राह “अर्थोपलब्धिहेतुः स्यात्प्रमाणम्" । अर्थस्य ग्राह्यस्य बाह्यस्य स्तम्भकुम्भाम्भोरुहादेरान्तरस्य च ज्ञानसुखादेरुपलब्धिर्ज्ञानमर्थोपलब्धिः । व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायादत्राव्यभिचारिण्यव्यपदेश्या व्यवसायात्मिका चार्थोपलब्धिाह्या, न तूपलब्धिमात्रम् । तस्या यो हेतुः कारणं स प्रमाणं स्याद्भवेत् । अर्थोपलब्धिस्तु प्रमाणस्य फलम् । अयमत्र भावः । अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिकाB-67 सामग्री तदेकदेशो वा चक्षुःप्रदीपज्ञानादिर्बोधरूपोऽबोधरूपो वा साधकतमत्वात्प्रमाणम् । तज्जनकत्वं च तस्य प्रामाण्यम् । तज्जन्यार्थोलब्धिः फलमिति । (B-51-52-53-54-55-56-57-58-59-60-61-62-63-64-65-66-67) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org