Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 653
________________ ५४० षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, (B-32) “निराकरो बोधऽर्थसहभाव्येकसामग्र्यधीनः तत्रार्थे प्रमाणम् इति वैभाषिकोक्तम् ।" सन्मति० टी० पृ० ४५९ । साक्षीपाठ (B-33) “खन्धा ति पञ्च खन्धा - रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञक्खन्धो, सङ्घारक्खन्धो, विञ्ञाणक्खन्धो ति ।" वि० मग्ग० १४।३३। (B-34) “पञ्चेमानि भिक्षवः संशयमात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुतातीतोऽध्वानागतोऽध्वाकाशं निर्वाणं पुद्गलश्चेति ।" माध्य० वृ० पृ० ३८९ । (B-35) “तस्मात् प्रमेयाधिगते: साधनं मेयरूपता ।" प्र० वा० २।३०६ । “अर्थसारूप्यमस्य प्रमाणम् ।२०। अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद्विषयाद् विज्ञानमुदेति तद्विषयसदृशं तद् भवति । तथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते ।” न्यायबि० टि० पृ० ८१ । प्रमाणं तु सारुप्यं योग्यतापि वा ।" तत्त्व सं० श्लो० १३४४ । (B-36) “तदेव परमार्थसत् । तदेव परमार्थसदिति । परमोऽर्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत्। य एवार्थः संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसत् स एव । स च प्रत्यक्षस्य विषयो यत:, तस्मात् तदेव स्वलक्षणम् । न्यायबि० टी० पृ० ७५ । अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं, ते स्वसामान्यलक्षणे । प्र० वा० २।३ । (B-37) “विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते । ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकच्छ्रुतिः ।" प्रा० वा० २।१६४ । " ननु कोऽयमपोहो नाम ? यथा व्यवसायं बाह्य एव घटादिरर्थोऽपोह इत्यभिधीयते अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा । यथा प्रतिभासं बुद्ध्याकारोऽपोह: अपोह्यते पृथक्क्रियतेऽस्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा । यथातत्त्वं निवृत्तिमात्रं प्रसह्यरूपोऽपोह: अपोहनमपोहः इति कृत्वा ।" तर्कमा० मो० पृ० २६ । (B-38) "मुक्तिस्तु शून्यतादृष्टस्तदर्थाः शेषभावनाः ।" प्र० वा० १।२५५ । “तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी । हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता ॥ १.२१३ ।। तत्र सत्यचतुष्टय एव सम्यग्दृष्टिः नैरात्म्यदृष्टि:, तद्विरुद्धार्थतत्त्वाकारानुरोधिनी तेषां स्थिरसुखाद्याकारणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोद्धुं शीलं यस्याः सा तथा सुभाविता । सादरनिरन्तरदीर्घकालाभ्यासप्राप्तवैशद्या हन्ति तृष्णां जन्महेतुं सानुचरां मात्सर्यादिपरिवारां ।" प्र० वा०, मनो० Jain Education International १,२७३ । (B-39) “अनादिवासनासङ्गविधेयीकृतचेतसाम् । विविधः प्रतिभासोऽयमेकत्र स्वप्नदर्शिनाम् ।" प्र० वार्तिकालं० पृ० ३९७ । (B-40) "तरङ्गा ह्युदधेर्यद्वत् पवनप्रत्ययोदिताः । नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते ॥५६॥ आलयौघस्तथा नित्यं विषयपवनेरितः । चित्रैस्तरङ्गविज्ञानैः नृत्यमानः प्रवर्तते ॥५७॥ " लंकावतार पृ० २७१ । “तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाद्युल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम्-तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ।" सर्वद० सं० पृ० ३७ । For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712