________________
५४०
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५,
(B-32) “निराकरो बोधऽर्थसहभाव्येकसामग्र्यधीनः तत्रार्थे प्रमाणम् इति वैभाषिकोक्तम् ।" सन्मति० टी० पृ० ४५९ ।
साक्षीपाठ
(B-33) “खन्धा ति पञ्च खन्धा - रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञक्खन्धो, सङ्घारक्खन्धो, विञ्ञाणक्खन्धो ति ।" वि० मग्ग० १४।३३।
(B-34) “पञ्चेमानि भिक्षवः संशयमात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुतातीतोऽध्वानागतोऽध्वाकाशं निर्वाणं पुद्गलश्चेति ।" माध्य० वृ० पृ० ३८९ ।
(B-35) “तस्मात् प्रमेयाधिगते: साधनं मेयरूपता ।" प्र० वा० २।३०६ । “अर्थसारूप्यमस्य प्रमाणम् ।२०। अर्थेन सह यत् सारूप्यं सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद्विषयाद् विज्ञानमुदेति तद्विषयसदृशं तद् भवति । तथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते ।” न्यायबि० टि० पृ० ८१ । प्रमाणं तु सारुप्यं योग्यतापि वा ।" तत्त्व सं० श्लो० १३४४ ।
(B-36) “तदेव परमार्थसत् । तदेव परमार्थसदिति । परमोऽर्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत्। य एवार्थः संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसत् स एव । स च प्रत्यक्षस्य विषयो यत:, तस्मात् तदेव स्वलक्षणम् । न्यायबि० टी० पृ० ७५ । अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं, ते स्वसामान्यलक्षणे । प्र० वा० २।३ ।
(B-37) “विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते । ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकच्छ्रुतिः ।" प्रा० वा० २।१६४ । " ननु कोऽयमपोहो नाम ? यथा व्यवसायं बाह्य एव घटादिरर्थोऽपोह इत्यभिधीयते अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा । यथा प्रतिभासं बुद्ध्याकारोऽपोह: अपोह्यते पृथक्क्रियतेऽस्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा । यथातत्त्वं निवृत्तिमात्रं प्रसह्यरूपोऽपोह: अपोहनमपोहः इति कृत्वा ।" तर्कमा० मो० पृ० २६ ।
(B-38) "मुक्तिस्तु शून्यतादृष्टस्तदर्थाः शेषभावनाः ।" प्र० वा० १।२५५ । “तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी । हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता ॥ १.२१३ ।। तत्र सत्यचतुष्टय एव सम्यग्दृष्टिः नैरात्म्यदृष्टि:, तद्विरुद्धार्थतत्त्वाकारानुरोधिनी तेषां स्थिरसुखाद्याकारणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोद्धुं शीलं यस्याः सा तथा सुभाविता । सादरनिरन्तरदीर्घकालाभ्यासप्राप्तवैशद्या हन्ति तृष्णां जन्महेतुं सानुचरां मात्सर्यादिपरिवारां ।" प्र० वा०, मनो०
Jain Education International
१,२७३ ।
(B-39) “अनादिवासनासङ्गविधेयीकृतचेतसाम् । विविधः प्रतिभासोऽयमेकत्र स्वप्नदर्शिनाम् ।" प्र० वार्तिकालं० पृ० ३९७ ।
(B-40) "तरङ्गा ह्युदधेर्यद्वत् पवनप्रत्ययोदिताः । नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते ॥५६॥ आलयौघस्तथा नित्यं विषयपवनेरितः । चित्रैस्तरङ्गविज्ञानैः नृत्यमानः प्रवर्तते ॥५७॥ " लंकावतार पृ० २७१ । “तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाद्युल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम्-तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ।" सर्वद० सं० पृ० ३७ ।
For Personal & Private Use Only
www.jalnelibrary.org