________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५३९
वीतमवीतं च । तत्र अन्वयमुखेन प्रवर्तमानं विधायकं वीतम् । व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तत्र अवीतं शेषवत् । वीतं द्वेधा पूर्ववत्, सामान्यतो दृष्टश्च... ।" सांख्यतत्त्वकौ० पृ० ३०।
(B-24) “यस्तर्हि समग्रेण हेतुना कार्योत्पादोऽनुमीयते स कथं त्रिविधे हेतावन्तर्भवति? हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥९॥ असावपि यथासंनिहितात् नान्यमर्थमपेक्षत इति तन्मात्रानुबन्धी स्वभावः भावस्य । तत्र हि केवलं समन्तात् कारणात् कार्योत्पत्तिसम्भवोऽनुमीयते । समग्राणां कार्योत्पादनयोग्यतानुमानात् । योग्यता च सामग्रीमात्रानुबन्धिनी स्वभावभूतैवानुमीयते । किं पुनः कारणसामग्र्याः कार्यमेव नानुमीयते । सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य संभवात् ।।१०।। न हि समग्राणीत्येव कारणद्रव्याणि स्वकार्यं जनयन्ति । सामग्रीजन्मनां शक्तीनां परिणामापेक्षत्वात् कार्योत्पादस्य । अत्रान्तरे च प्रतिबन्धसंभवात् न कार्यानुमानम् । या तीयं अकार्यकारणभूतेनान्येन रसादिना रूपादिगतिः, सा कथं ? नैष दोषः । सापि-एकसामग्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥११॥ तत्र हेतुरेव तथाभूतोऽनुमीयते ।.... शक्तिप्रवृत्त्या न विना रस: सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तत् कार्यलिङ्गजा ॥१२॥ प्रवृत्तशक्तिरूपोपादानकारणसहकारिप्रत्ययो हि रसं जनयति इन्धनविकारविशेषोपादानहेतुसहकारिप्रत्याग्निधूमजननतुल्यवत् ।" प्र० वा० स्व० १९-१२ ।।
(B-25) "साध्यधर्मसामान्येन समानोऽर्थः सपक्षः।" न्यायबि० टी० २७ । (B-26) "न सपक्षोऽसपक्षः ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति ।" न्यायबि० २।८९।११ ।
(B-27) "एष एव पक्षधर्मोऽन्वयव्यतिरेकवान् इति तदंशेन व्याप्तः त्रिलक्षण एव त्रिविध एव हेतुर्गमकः, स्वसाध्यधर्माभिचारात् ।" हेतुबि० पृ० ६८ । “एतल्लक्षणो हेतुस्त्रिप्रकार एव । स्वभावः, कार्यम्, अनुपलब्धिश्चेति । यथा अनित्ये कस्मिंश्चित् साध्ये सत्त्वमिति । अग्निमति प्रवेशे धूम इति । अभावे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति ।" हेतुबि० पृ० ५४ ।
___ (B-28) "तस्य द्विधा प्रयोगः । साधर्म्यण एकः,वैधयेणापरः । यथा यत् सत् तत् सर्वं क्षणिकम् । यथा घटादयः संश्च शब्दः तथा क्षणिकत्वाभावे सत्त्वाभावः ।" हेतुबि० पृ० ५५ । तस्य समर्थनं साध्येन व्याप्ति प्रसाध्य धम्मिणि भावसाधनं । यथा - यद्य (?त्स) त्कृतकं वा तत्सर्वमनित्यं यथा घटादिः सन्कृतको वा शब्द इति । अत्रापि न कश्चित्क्रमनियम इष्टार्थसिद्धरुभयत्राविशेषात् । धर्मिणि प्राक्सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यते एव । यथा सन् शब्दः कृतको वा यश्चैवं स सर्वोऽनित्यः यथा घटादिरिति । अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनम् । यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि स्याद-क्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाऽयोगादर्थक्रियासामर्थ्यलक्षणमतो निवृत्तमित्यसदेव स्यात् ।" वादन्याय पृ० ५-८ ।
(B-29) "तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् । अर्थप्रतीतिरूपत्वात् ।" न्यायबि० १।१७,१८ । "स्वसंवित्तिः फलञ्चास्य तद्रूपादर्थनिश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ॥" प्रमाणसमु० ११० । "विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । स्ववित्तिर्वा प्रमाणं तु सारुप्यं योग्यतापि वा ॥१३४३।।" तत्त्वसं०।
(B-30) “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् ।" न्यायबि० १।१३ । ___ (B-31) "वासनापूर्वविज्ञानकृतिका शक्तिरुच्यते ।.... ॥ वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः ।" प्र० वार्तिकाल० पृ० ३५६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org