________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, साक्षीपाठ
(B-14) "तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्यग्राहकसंवेदनकल्पनाप्रवृत्तेः ग्राह्यादिकल्पना, परमार्थत: संवेदनमेवाविभागमिति स्थितम् ।" प्र० वार्तिकाल० पृ० ३९८ । युक्त्योपपन्ना हि सर्ती प्रकल्प यद्वासनामर्थनिराक्रियेयम् । तथापि बाह्याभिनिवेश एष जगद् ग्रहग्रस्तमिदं समस्तम् । तस्माद्विभक्त आकारः सकलो वासनाबलात् । बहिरर्थत्वरहितस्ततोऽनालम्बना मतिः । अत एव सर्वे प्रत्यया अनालम्बना: प्रत्ययत्वात्स्वप्रत्ययवदिति प्रमाणस्य परिशुद्धिः । तथा हीदमेवानालम्बनत्वं यदात्माकारवेदनत्वम् । प्र० वार्तिकाल० पृ० ३५९ ।
(B-15) “नान्योनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥" प्र० वा० २।३२७ ।
५३८
(B-16) "तथाऽनुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तुग्राह्य: । " न्यायबि० टी० पृ० ७१ ।
(B-17) "अनुमानं द्विधा । स्वार्थं परार्थं च ।" न्यायबि० २।१, २ ।
(B-18) “त्रिरूपाणि च त्रीण्येव लिङ्गानि । अनुपलब्धि स्वभावः कार्यं चेति ।" न्यायबि० २।१०,११ (B-19) "सा च प्रयोगभेदादेकादशप्रकारा |३०| स्वभावानुपलब्धिर्यथा-नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । ३१ | कार्यानुपलब्धिर्यथा-नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति । ३२ | व्यापकानुपलब्धिर्यथा - नात्र शिंशपा, वृक्षाभावादिति । ३३ | स्वभावविरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्शो वह्नेरिति । ३४ । विरुद्धकार्योपलब्धिर्यथा - नात्र शीतस्पर्शो धूमादिति । ३५ । विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः हेत्वन्तरापेक्षणादिति । ३६ । कार्यविरुद्धोपलब्धिर्यथा-नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेरिति |३७| व्यापकविरुद्धो-पलब्धिर्यथा नात्र तुषारस्पर्शो वह्नेरिति ॥३८॥ कारणानुपलब्धिर्यथा नात्रधूमो वहन्यभावादिति ॥ ३९ ॥ कारणविरुद्धोपलब्धिर्यथानास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति |४०| कारणविरुद्ध कार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेश: धूमादिति । ४१ । इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति ॥ ४२ न्यायबि० टी० ३०-४२ ।
(B-20) “स्वभाव: स्वसत्तामात्र भाविनि साध्यधर्मे हेतुः । यथा वृक्षोऽयं शिशपात्वादिति ।" न्यायबि० सू० १५, १६ ।
(B-21) "कार्यं यथा वह्निरत्र धूमादिति ।" न्यायबि० सू० १७ ।
(B-22) “स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य | २१ | वस्तुतस्तादात्म्यात् तदुत्पत्तेश्च ।२२। अतत्स्वभावस्यातदुत्पतेश्च तत्राप्रतिबद्धस्वभावत्वात् । २३। ते च तादात्म्य - तदुत्पत्ती स्वभाव-कार्य-योरेवेति ताभ्यामेव वस्तुसिद्धिः | २४| " न्यायवि० सू० २१-२४ ।
(B-23) “अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् ।" वैशे० सू० १|१|१ | " अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत् सामान्यतो दृष्टं च ।" न्याय सू० १ ११५ । " तत्र प्रथमं तावत् द्विविधं
For Personal & Private Use Only
www.jalnelibrary.org
Jain Education International