________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५३७
(B-6) "द्विविधो हि विषयः प्रमाणस्य-ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवसति । अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन संतान एव। संतान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुमशक्यत्वात् ।" न्यायबि० टी० पृ० ७१ । “तथानुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि ।" न्यायबि० टी० पृ० ७१ ।
(B-7) "अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः ॥" तत्त्वसं० श्लो० १३०६ । ___(B-8) "अथ कल्पना च कीदृशी चेदाह । नामजात्यादियोजना यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ-उच्यते डित्थ इति । जातिशब्देषु नीम्ना गौरियमिति । गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाक्य इति । द्रव्यशब्देषु द्रव्येण दण्डी विवाणीति । अत्र संबन्ध विशिष्टस्येति केचित् । अन्य त्वर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ इति । " प्र० समु० वृ० पृ० १२ ।
(B-9) "तत् चतुर्विधम् ।" न्यायपि० १७।
(B-10) "इन्द्रियज्ञानम्। ८ । इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं यत् तत् प्रत्यक्षम्।" न्यायबि० टी० १८ । प्रत्ययसंज्ञकेन आ० क०।
(B-11) "स्वविषयानन्तरविषयसहाकारिणेन्द्रियज्ञानेन समनन्तर प्रत्ययेन जनितं तन्मनोविज्ञानम् ।९। स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्य अनन्तर:-न विद्यतेऽन्तरमस्येति । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सति इन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसंतानान्तर्भूतो गृहीतः । स सहकारी यस्येन्द्रियज्ञानस्य तत् तथोक्तम् । द्विविधश्च सहकारी परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यतिशयाधानाऽयोगा-देककार्यकारित्वेन सहकारी गृह्यते । विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते यतस्तदनयोः परस्पर सहकारित्वम् । ईदृशेनेन्द्रियविज्ञानेनालम्बनभूतेनापि योगिज्ञानं जन्यते । तन्निरासार्थं समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासौ ज्ञानत्वेन अनन्तरश्चासौ अव्यवहितत्वेन स चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः तेन जनितम् । तदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रियज्ञान मनोविज्ञानयोर्जन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसंतानवति निरस्तम् ।" न्यायबि० टी० १।९।।
(B-12) "सर्वचित्तचैतानामात्मसंवेदनम् ।१०। सर्वचित्तेत्यादि । चित्तम् अर्थमात्रग्राहि चैत्ता विशेषावस्थाग्रहिणः सुखादयः सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात् स्वसंविदिता, नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचित् चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् ।" न्यायबि० टी० १।१०।
(B-13) "भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ।११। भूतः सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यार्यसत्यानि । भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम् । भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो यदा स्फुटाभत्वमीषदसंपूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं तावत् तस्य प्रकर्षंगमनम् । संपूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः संपूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात् पर्यन्ताद् यज्जातं भाव्यमानस्यार्थस्य संनिहितस्येव स्फुटतराकारग्राहिज्ञानं योगिनः प्रत्यक्षम् ।" न्यायबि० टी० ११११ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org