________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट-५, साक्षीपाठ
किंतु तद्व्यापकविरहात् । तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । तत: कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधात् निवृत्तेस्तद्व्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्व्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- यत् सत् तत् क्षणिकमेव इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति ।" हेतुबि० पृ० १४६ ।
५३६
(A-88) " प्रमाणमविसंवादि ज्ञानं, अर्थक्रियास्थितिः । अविसंवादनं ।" - प्र० वा० १।३ । "अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।" न्यायबि० टी० पृ० १७ ।
(A-89) “लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थं प्रापयत् संवादकमुच्यते। प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम्, नान्यत् । तथाहि न जनयदर्थं प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ।" न्यायबि० टी० पृ० १७ ।
1
(A-90) “प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् । प्रापकत्वाच्च प्रमाणम् ||" न्यायबि० टी० पृ० २१
(B-1) तुलना - “मूलातिशयाश्चत्वारः । तद्यथा - अपायापगमातिशयः, ज्ञानातिशयः, पूजतिशयः, वागतिशयश्च ।" अनेकान्तज० स्व० पृ० ४ । " यथाक्रमं भगवतो मूलातिशयाश्चत्वारः स्मृतिमुकुरभूमिकामानीयन्ते । तद्यथा- अपायापगमातिशयो... एतेषां चातिशयानामियमुपन्यासे तथोत्पत्तिरेव निमित्तम्, तथाहिनाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति । न चाविश्ववस्तुज्ञः शक्रपूज्यः संपद्यते । न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुङ्क्त इति । " - स्या० र० पृ० ४ । स्या० म० का० १ । काललो० श्लो० ९९७ ।
(B-2) "यथा हि अंगसंभारा होति सद्दो रथो इति । एवं खंधेसु होति सत्तोति सम्मुति ॥" मिलिन्द० । “नन्वनित्येषु भावेषु कल्पना नाम जायते-यथोपवर्णितेन न्यायेन स्वरूपसिद्धस्य स्कन्धव्यतिरिक्तस्यात्मनः सर्वथाऽभावात् । नन्वनित्येषु रूपवेदनासंज्ञासंस्कारविज्ञानाख्येषु भावेषु आत्मेति कल्पना अभूतार्थारोपणं क्रियते आत्मा सत्त्वो जीवो जन्तुरिति । यथाहि इन्धनमुपादायाग्निः एवं स्कन्धानुपादाय आत्मा प्रज्ञप्यते । " चतुःश० वृ० १०।३ । “नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥" अभिध० ३।१८ । बोधि० पं० पृ० ४७४ । “स एवं स्कन्धसमुदायलक्षणः प्रज्ञप्तिसन्....” तत्त्वसं० पृ० १३१ ।
(B-3) "कतमं च भिक्खवे दुक्खसमुदयं अरियसच्चं ? यायं तण्हा पोनोभविका नन्दिरागसहगता तत्र तत्राभिनन्दिनी सेयथीदं कामतण्हा भवतण्हा विभवतण्हा । " म० नि० महाहत्थि० । विसुद्धि० १६ । ६१
(B-4) “यथा चिरकालीनाध्ययनादिखिन्नस्य अस्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डुकाख्यः कश्चिन्नयनाग्रे परिस्फुटति । अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डुकः । " शास्त्रदी० युक्ति० पृ० ९९ ।
(B-5) "नोच्यते-यस्मिन्नेव काले परिच्छिद्यते तस्मिन्नेव काले प्रापयितव्यमिति । अन्यो हि दर्शनकाल:, अन्यश्च प्राप्तिकालः । किन्तु यत्कालं परिच्छिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसायाच्च संतानगतमेकत्वं द्रष्टव्यमिति ।" न्यायबि० टी० पृ० २६ ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org