________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, साक्षीपाठ
अथ अनश्वरात्मेति पक्षस्तदापि नाशहेतुरकिंचित्कर एव । तस्य केनचित्स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् ।” तत्त्वसं० पृ० १४० ।
(A-80) “यथा यत् सत् क्षणिकमेव, अक्षणिकत्वेऽर्थक्रियाविरोधात् तल्लक्षणवस्तुत्वं हीयते । " हेतुवि० पृ० ५४ । “यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि - स्यादक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाऽयोगादर्थक्रियासामर्थ्यलक्षणमतो निवृत्तमित्यसदेव स्यात् । सर्वसामर्थ्योपाख्य विरहलक्षणं हि निरुपाख्यमिति ॥..... यत्र क्रमयोगपद्यायोगो न तस्य क्वचित् सामर्थ्यम्, अस्ति चाक्षणिके स इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकर्षति । य(त्स)त्कृतकं वा तदनित्यमेवेति सिध्यति । तावता साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति।”-वादन्यायः पृ० ६-९ । “क्रमेण युगपच्चापि यस्मादर्थक्रिया कृता । न भवन्ति स्थिरा भावा निःसत्त्वास्ते ततो मता: । कार्याणि हि विलम्बते कारणासन्निधानतः । समर्थहेतुसद्भावे क्षेपस्तेषां हि किंकृतः ॥ अथापि सन्ति नित्यस्य क्रमिणः सहकारिणः । यानपेक्ष्य करोत्येव कार्यग्रामं क्रमाश्रयम् ॥ साध्वेतत्किंतु ते तस्य भवन्ति सहकारिणः। किं योग्यरूपहेतुत्वादेकार्थकरणेन वा ॥ योग्यरूपस्य हेतुत्वे स भावस्तैः कृतो भवेत् । स चाशक्यक्रियो यस्मात्तत्स्वरूपं तदा स्थितम् । कृतौ वा तत्स्वरूपस्य नित्यतास्यावहीयते । विभिन्नोऽतिशयस्तस्माद्यद्यसौ कारक: कथम् ॥" तत्त्वसं० श्लो० ३९४ - ९९ ।
५३५
(A-81) “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृत्तिसत् प्रोक्तं ते स्वसामान्यलक्षणे ॥" प्र० वा० २।३ । “अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः ।" न्यायबि० सू० १।१५।
(A-82) "अपेक्षेत परः कार्यं यदि विद्यते किंचन ।" प्र० वा० ३।२७९ ।
(A-83) “योगपद्यं च नैवेष्टं तत्कार्याणां क्षयेक्षणात् । निःशेषाणि च कार्याणि सकृत्कृत्वा निवर्तते। सामर्थ्यात्मा स चेदार्थ: सिद्धाऽस्य क्षणभङ्गिता ।" तत्त्वसं० ४१३-१४ ।
(A-84) “क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् । तथा हि न तावत् क्रमाक्रमाभ्यामन्यः प्रकारोऽस्ति, येनार्थक्रियासंभावनायां क्रमाक्रमाभ्यामर्थक्रियाव्याप्तिर्न स्यात् । तस्मादर्थक्रियामात्रानुबद्धतया तयोरन्यतरप्रकारस्य । उभयोरभावे चाभावादर्थक्रियामात्रस्येति ताभ्यां तस्य व्याप्तिसिद्धिः ।" - क्षणभ० सि० पृ० ५५ ।
(A-85) “सदृशापरोत्पत्तिविप्रलब्धो वा, सदृशे हि तदेवेदमिति बुद्धिर्यमजे । अत्रापि सदृशापरोत्पत्तिविप्रलब्धो लूनपुनर्जातकेशनखादिवत्... " प्र० वार्तिकाल० २ । २०९ । " तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विव आकारसाम्यतामात्रापहृतहृदयानां भ्रान्त एव तत्त्वाध्यवसायो मन्तव्यः.... (पृ० ८६) सदृशापरभावग्रहकृतश्च अर्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्जातेष्विव नखकेशादिष्विति किन्नेष्यते (पृ० १२०) । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु इत्यत्र विरोधाभावादिति ।" ( पृ० १३६ ) - हेतुबि० टी० । “ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते -तुल्यापरक्षणोत्पादाद्यथा नित्यत्वविभ्रमः । अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रम : ।" तत्त्वसं० का० १९७२ ।
(A-86) “आयतनानीति द्वादशायतनानि चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, रसायतनं, कायायतनं, फोटुब्बायतनं, मनायतनं, धम्मायतनं ति ।" वि० म० पृ० ३३४ ।
(A-87) “न चैवाक्षणिकस्य क्वचित् कदाचित् शक्तिरस्ति, क्रमयौगपद्याभ्यां कार्यक्रियाशक्तिविरहात् । इत्थं च यत् सत् तत् क्षणिकमेवेति व्याप्तिसिद्धिः । नैव प्रत्यक्षतः कार्यविरहाद्वा सर्व्वशक्तिविरहोऽक्षणिकत्वे उच्यते,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org