________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५४१
(B-41) "तथता भूतकोटिश्चानिमित्तः परमार्थिकः । धर्मधातुश्च पर्यायाः शून्यतायाः समासतः ॥" मध्यान्तवि० सू० टी० पृ० ४१ ।
(B-42) "यथा मायादयः स्वभावेन अनुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च लोकस्य । एवमेतेऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधेनविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम् (समाधिराजसूत्रे) यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव । स्वभावशून्या तु निमित्तभावना । तथोपमान् जानय सर्वधर्मान् ।" माध्यमिकवृ० संस्कृत- पृ० १७७ । “यत्तूक्तं भगवता मायोपमा धर्मा यावत् निर्वाणोपमा इति ।" महायानसूत्रालं पृ० ६२ । एतदुक्तं भगवता अनुत्पन्नाः सर्वभावा मायोपमाश्च इति । लंकावतार सू० द्वि० भा० पृ० १११ । “यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतः ।।" माध्यमिकवृ० संस्कृत० ३४।।
(B-43) "विवेकविलासे बौद्धमतमित्थमभ्यधायि-चतुष्प्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिणेक बहु मन्यते । सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥ आकारसहिता बुद्धिर्योगाचारस्य सम्मता। केवलां संविदं स्वस्थां मन्यन्ते। मध्यमाः पुनः ॥ रागादिज्ञानसंतानवासनो-च्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥" सर्वद० सं० पृ० ४६ ।
(B-44) "दश पारमिता" ग्रन्थरूपेण न सन्ति । तास्तु इत्थम्-दान-शील-नैष्कर्म्य-प्रज्ञा-वीर्य-क्षान्तिसत्य-अधिष्ठान-मैत्रीउपेक्षाः । बुद्धवंस । अभिधर्मकोशे षट् पारमिताः । अभि० को० ४।।
(B-45) "तर्कभाषा मोक्षाकरगुप्तकृता । हेतुबिन्दुः धर्मकीर्तिविरचितः । प्रमाणवार्तिकं धर्मकीर्तिकृतम् । तत्त्वसंग्रहः शान्तरक्षितविरचितः । कमलशीलकृता तत्त्वसंग्रहपञ्जिका । न्यायबिन्दुः धर्मकीर्तिकृतः । न्यायोपदेशः दिङ्नागविरचितः ।"
(B-46) "सिद्धे च कार्यत्वे कर्तृपूर्वकत्वं साध्यते । तथा च विवादास्पदं बोधाधारकारणम् कार्यत्वाद्, यद् यद् कार्यं तत्तद् बोधाधारकारणम् यथा घटादि, तथा चेदं कार्यं तस्मात् बोघाधारकारणमिति ।" प्रश० व्यो० पृ० ३०२ । “सामान्यतो दृष्टं तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे पृथिव्यादि कार्यं धर्मि तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः कार्यत्वाद् घटादिवत् ।" न्यायम० प्रमा० पृ० १७८ । महाभूतचतुष्टयमुपलब्धिमत्पूर्वकं कार्यत्वात्.... सावयवत्वात् । प्रशस्त० कन्द० पृ० ५७ । वैशे० उप० पृ० ६२ । कार्याऽऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ न्यायकुसु० ५।१ । तथाहि विवादाध्यासितमुपलब्धिमत्कारणपूर्वकं अभूत्वाभावि-त्वाद्वस्त्रादिवदिति सामान्यव्याप्तेरनवद्यत्वेन निराकर्तृमशक्यत्वात्तत्सामान्यसिद्धौ पारिशेष्यात्कार्य्यत्वाच्च कर्तृविशेषसिद्धिश्चित्रादिकार्यविशेषात्कर्तृ विशेषसिद्धिवत् । न्यायसा० पृ० ३६ । तत्राविद्धकर्णोपन्यस्तम् ईश्वरसाधने प्रमाण द्वयमाह-यत्स्वारम्भकेत्यादि । यत्स्वाम्भकावयवसन्निवेशविशेषवत् । बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् । तत्त्वसं० श्लो० ४७ ।
(B-47) "बोधाधारेऽधिष्ठातरि साध्ये न साध्यविकलत्वम् । नापि विरुद्धत्वम् । न च कार्यत्वं बुद्धिमन्तमधिष्ठातारं व्यभिचरतीत्यव्यभिचारोपलम्भसामर्थ्यादुपलभ्यमानं पक्षे क्षित्यादिसंपादनसमर्थ-मेवाधिष्ठातारं साधयतीति । न च क्षित्याधुपादानोपकरणानभिज्ञः क्षित्यादिसंपादनसमर्थ इति परमाण्वादिविषयज्ञानं तत्कर्तुर्लभ्यते ।"-प्रश० व्यो० पृ० ३०२ । तथाहि तनुभुवनाद्यभिज्ञः कर्ता नानित्यासर्वविषयबुद्धिमान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org