________________
५४२
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
तत्कर्तृस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः यथाऽस्मदादिः तदुपादानाद्यभिज्ञश्चायं तस्मात्तथेति । न्यायवा० ता० पृ०६०४ । यत् तदीश्वरस्य ऐश्वर्यं किं तन्नित्यमनित्यमिति ? नित्यम् इति ब्रूमः... अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति । न्यायवा० पृ० ४६४ । तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । न्यायवा० ता० टी० पृ० ५१७ । न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद्विरोधः । दृष्टा हि रूपादीनां गुणानाम् आश्रयभेदेन द्वयी गतिः तथा बुद्धयादीनामपि भविष्यति । प्रशस्त० कन्द० पृ० ५५ । व्यो० पृ० ३०५ ।
(B-48) तुलना-"इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित् । ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम्।" तत्त्वसं० श्लो० ३१९९ ।
(B-49) "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः ।" न्यायसू० १।१।१ ।
(B-50) "उपलब्धिहेतुश्च प्रमाणम् ।" न्यायभा० २।१।११ । न्यायवा० पृ० ५ । उपलब्धिसाधनानि प्रमाणानि । न्यायभा० १।१३ । तदेव ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । न्यायवा० ता० टी० पृ० २२
(B-51) "प्रमाणविषयोऽर्थः प्रमेयम् ।" न्यायक० पृ० ४ । ___ (B-52) "विशेषस्मृतिहेतोर्धर्मस्य ग्रहणाद् विशेष स्मृतेश्च जायमानः किंस्वित् इति विमर्शः संशयः।" न्यायक० पृ० ८।
(B-53) "यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम् ।" न्यायक० पृ० ८ ।
(B-54) "वादिप्रतिवादिनोः साध्यसाधनधर्माधिकरणत्वेन तद्रहितत्वेन वा प्रसिद्धोऽर्थो दृष्टान्तः ।" न्यायक० पृ०८।
(B-55) "अयमेवमिति प्रमाणमूलाभ्युपगमः विषयीकृतः सामान्यविशेषवानार्थः सिद्धान्तः।" न्यायक० पृ०९।
(B-56) "दर्शनशास्त्रसम्मतप्र-क०, प० १, २, भ० १,२।" ___ (B-57) "साधनीयस्यार्थस्य यावता वाक्येन परस्मै प्रतिपादनं क्रियते तस्य पञ्च भागाः प्रतिज्ञादयोऽवयवाः ।" न्यायक० पृ० ९।
(B-58) "अविज्ञाततत्त्वे धर्मिणि एकतरपक्षानुकूलार्थदर्शनेन, तस्मिन् संभावनाप्रत्ययरूप ऊहस्तर्क उच्यते ।" न्यायक० पृ० १३ । __(B-59) "पक्षप्रतिपक्षविषयसाधनोपालम्भपरीक्षया तदन्यतरपक्षावधारणं निर्णयः ।"न्यायक० पृ० १३ ।
(B-60) "वादो नाम वीतरागयोः पक्षप्रतिपक्षपरिग्रहपूर्वकः प्रमाणतर्कपूर्वकसाधनोपालम्भप्रयोगे क्रियमाणे एकपक्षनिर्णयावसानो वाक्यसमूहः ।" न्यायक० पृ० १३ ।
(B-61) "स एव पक्षप्रतिपक्षपरिग्रहो विजिगीषया प्रयुक्तः छलजातिनिग्रहस्थानप्रयोगबहुलो जल्पः।" न्यायक० पृ० १३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org