________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(B-62) “स्वपक्षसाधनोपन्यासहीनो जल्प एव वितण्डा भवति ।" न्यायक० पृ० १३ । (B-63) “अहेतवो हेतुवदवभासमानाः हेत्वाभासाः।" न्यायक० पृ० १४ ।
(B-64) “तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः छलम् ।" न्यायक० पृ० १६ । (B-65) " सम्यगृहेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे तु प्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिरित्युच्यते ।" न्यायक० पृ० १७ ।
(B-66) “विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ।" न्यायक० पृ० २१ ।
(B-67) “अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धि विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाबोध स्वभावो हि तस्य स्वरूपम्, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् ।" न्यायमं० पृ० १२ ।
५४३
(B-68) “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।" न्ययासू० १।१।३ ।
(B-69) “अथ तत्पूर्वकं त्रिविधमनुमानम् - पूर्ववत्, शेषवत्, सामान्यतोदृष्टं च ।" न्यायसू० १।१।५ । (B-70) "पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति ।" न्यायभा० १।१।५ ।
(B-71) “गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्था: ।" न्यायसू० १।१।१४।
(B-72) “सन्निकर्ष: पुन: षोढा भिद्यते । संयुक्तः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशेषणविशेष्यभावश्चेति । तत्र चक्षुरिन्द्रियं रूपवान् घटादिरर्थः । तेन सन्निकर्षः संयोगस्तयोर्द्रव्यस्वभावत्वात् । अद्रव्येण च तद्गतरूपादिना संयुक्तसमवायः । यस्माच्चक्षुषा संयुक्ते द्रव्ये रूपादि वर्तत इति । वृत्तिस्तु समवायः । रूपादिवृत्तिना सामान्येन संयुक्तसमवेतसमवायः सन्निकर्षः । एवं घ्राणादिषु गन्धवदादिद्रव्येण संयोगः । सत्समवेतेषु गन्धादिषु संयुक्तसमवायः तद्वर्तिषु च सामान्यादिषु संयुक्तसमवेतसमवायः । शब्दे समवायः । तद्गतेषु च सामान्येषु समवेतसमवायात् । समवाये चाभावे च विशेषणविशेष्यभावादिति । " न्यायवा० पृ० ३१ । न्यायम० पृ० ६८ । प्रश० क० प्र० ९९५ । न्यायमा० पृ० २, ३ ।
(B-73) "आत्मा मनसा युज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति ।" न्यायमा० १।१।४ । तुलना - आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति । न्यायम० पृ० ७० ।
(B-74) “अथ ज्ञानग्रहणं किमर्थम् ? सुखादिव्यवच्छेदार्थम् ।" न्यायवा० पृ० ३६ । अथ वा सुखादिव्यावृत्त्यर्थं ज्ञानपक्षोपादानम् । न्यायम० प्रमा० ७० ।
(B-75) "तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यते इति व्यपदेश्यं शब्दकर्मतामापन्नं ज्ञानमुच्यते यदिन्द्रियार्थसंनिकर्षादुत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते रूपज्ञानं रसज्ञानमिति तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेश्यग्रहणम् ।" न्यायम० प्रमा० पृ० ७३ । " यावदर्थं वै नामधेयशब्दास्तैरर्थ-संप्रत्ययोऽर्थसंप्रत्ययाच्च व्यवहारः तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञानं रूपमिति जानीते रस इति जानीते नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते अत आह० अव्यपदेश्यमिति ।" न्यायभा० १।१।४ ।
(B-76) "ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा संनिकृष्यन्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org