Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 663
________________ ५५० षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ ____(C-42) "पक्षविपक्षयोरेव वर्तमानो हेतुविरुद्धः।" न्यायसा० पृ०७। "सपक्षे सत्त्वं यस्य नास्ति विपक्षे च वृत्तिरस्ति स साध्यविपर्ययसाधनत्वाद् विरुद्धो भवति । यथा अश्वोऽयं विषाणत्वादिति ।" न्यायक० पृ० ४। (C-43) "पक्ष-सपक्ष-विपक्षवृत्तिरनैकान्तिकः ।" न्यायसा० पृ०७। (C-44) "विपक्षादपरिच्युतः पक्षसपक्षयोर्वर्तमानो हेतुः सव्यभिचारित्वादनैकान्तिको भवति ।" न्यायक० पृ० १४ । (C-45) "प्रत्यक्षागमविरुद्धः कालात्ययापदिष्टः । अबाधितपरपक्षपरिग्रहो हेतुप्रयोगकाल: तमतीत्यासावुपदिष्ट इति । अनुष्णोऽग्निः कृतकत्वात् घटवदिति प्रत्यक्षविरुद्धः । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवत् इत्यागमविरुद्धः।" न्यायक० पृ० १५ । प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्टः । न्यायसा० पृ०७। (C-46) "स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः।" न्यायसा० पृ० ७, न्यायक० पृ० १५। (C-47) "वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।" न्यायसू० १।२।१० । “तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः छलम् ।" न्यायकलि० पृ० १६ । (C-48) "तत्त्रिविधम् - वाक्छलं सामान्यछलमुपचारछलं चेति ।" न्यायसू० १।२।१२। (C-49) "अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । नवकम्बलोऽयं माणवक इति प्रयोगः । अत्र नवः कम्बलोऽस्य इति वक्तुरभिप्रायः, विग्रहे तु विशेषो न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यार्थं नव कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा च असंभवेन प्रतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बला इति ।" न्यायभा० १।२।१२ । (C-50) "संभवतोऽर्थस्य अतिसामान्ययोगात् असंभूतार्थकल्पनासामान्यछलम् ॥१३॥ अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इत्युक्ते कश्चिदाह-संभवति ब्राह्मणे विद्याचरणसंपदिति, अस्य वचनस्य विघातोऽर्थविकल्पोपपत्त्या असंभूतार्थविकल्पनया वियते यदि ब्राह्मणे विद्याचरणसंपत् संभवति व्रात्येऽपि संभवेत् व्रात्योऽपि ब्राह्मणः सोऽप्यस्तु विद्याचरणसंपन्न इति ।" न्यायभा० १।२।१३ । ___ (C-51) "धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।" न्यायसू० १।१।१४ । “औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारछलम् । मञ्चाः क्रोशन्तीति इत्युक्ते परः प्रत्यवतिष्ठते मञ्चाः कथमचेतनाः क्रोशन्ति । मञ्चस्थाः पुरुषाः क्रोशन्तीति ।" न्यायक० पृ० १६ । ___(C-52) "तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्दसामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति।" प्र० मी० पृ०। (C-53) "प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिः।" न्यायसा० पृ०१७। “सम्यग्हेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे तु प्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिरित्युच्यते ।" न्यायक० पृ० १७ । “अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ।" प्र० मी० २।१।२९ । (C-54) "साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिर्भवति ।" न्यायक० पृ० १८ । (C-55) "प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती भवतः ।" न्यायक० पृ० १८ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712