Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 655
________________ ५४२ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ तत्कर्तृस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः यथाऽस्मदादिः तदुपादानाद्यभिज्ञश्चायं तस्मात्तथेति । न्यायवा० ता० पृ०६०४ । यत् तदीश्वरस्य ऐश्वर्यं किं तन्नित्यमनित्यमिति ? नित्यम् इति ब्रूमः... अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति । न्यायवा० पृ० ४६४ । तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । न्यायवा० ता० टी० पृ० ५१७ । न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद्विरोधः । दृष्टा हि रूपादीनां गुणानाम् आश्रयभेदेन द्वयी गतिः तथा बुद्धयादीनामपि भविष्यति । प्रशस्त० कन्द० पृ० ५५ । व्यो० पृ० ३०५ । (B-48) तुलना-"इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित् । ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम्।" तत्त्वसं० श्लो० ३१९९ । (B-49) "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः ।" न्यायसू० १।१।१ । (B-50) "उपलब्धिहेतुश्च प्रमाणम् ।" न्यायभा० २।१।११ । न्यायवा० पृ० ५ । उपलब्धिसाधनानि प्रमाणानि । न्यायभा० १।१३ । तदेव ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । न्यायवा० ता० टी० पृ० २२ (B-51) "प्रमाणविषयोऽर्थः प्रमेयम् ।" न्यायक० पृ० ४ । ___ (B-52) "विशेषस्मृतिहेतोर्धर्मस्य ग्रहणाद् विशेष स्मृतेश्च जायमानः किंस्वित् इति विमर्शः संशयः।" न्यायक० पृ० ८। (B-53) "यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम् ।" न्यायक० पृ० ८ । (B-54) "वादिप्रतिवादिनोः साध्यसाधनधर्माधिकरणत्वेन तद्रहितत्वेन वा प्रसिद्धोऽर्थो दृष्टान्तः ।" न्यायक० पृ०८। (B-55) "अयमेवमिति प्रमाणमूलाभ्युपगमः विषयीकृतः सामान्यविशेषवानार्थः सिद्धान्तः।" न्यायक० पृ०९। (B-56) "दर्शनशास्त्रसम्मतप्र-क०, प० १, २, भ० १,२।" ___ (B-57) "साधनीयस्यार्थस्य यावता वाक्येन परस्मै प्रतिपादनं क्रियते तस्य पञ्च भागाः प्रतिज्ञादयोऽवयवाः ।" न्यायक० पृ० ९। (B-58) "अविज्ञाततत्त्वे धर्मिणि एकतरपक्षानुकूलार्थदर्शनेन, तस्मिन् संभावनाप्रत्ययरूप ऊहस्तर्क उच्यते ।" न्यायक० पृ० १३ । __(B-59) "पक्षप्रतिपक्षविषयसाधनोपालम्भपरीक्षया तदन्यतरपक्षावधारणं निर्णयः ।"न्यायक० पृ० १३ । (B-60) "वादो नाम वीतरागयोः पक्षप्रतिपक्षपरिग्रहपूर्वकः प्रमाणतर्कपूर्वकसाधनोपालम्भप्रयोगे क्रियमाणे एकपक्षनिर्णयावसानो वाक्यसमूहः ।" न्यायक० पृ० १३ । (B-61) "स एव पक्षप्रतिपक्षपरिग्रहो विजिगीषया प्रयुक्तः छलजातिनिग्रहस्थानप्रयोगबहुलो जल्पः।" न्यायक० पृ० १३ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712