Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 659
________________ ५४६ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ (B-87) "तुलना-यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत् स्तुतं प्रस्तुतम् ।" अष्ट० श०, अष्टसह० पृ० ७२ । प्रमेयरत्नमा- ३३१० । लघी० ता० पृ० ४९ । सुविवेचितं कार्यं कारणं न व्यभिचरति । - न्यायकुमु० पृ० ६०४। (B-88) "प्रतिपत्तुरपराधो नानुमानस्येति ।" अष्टश० अष्टस० पृ० ७२ न्यायकुमु० पृ० ७३ । स्या० रत्ना० पृ० २६९ । प्रमातुरपराधोऽयं विशेष यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ।। न्यायम० प्रमा० पृ० ११८ । (B-89) "शेषवत्-तद् यत्र कार्येण कारणमनुमीयते पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति ।" न्यायभा० १।१।५ । उपरि वृष्टिमद्देशसंबन्धिनी नदी स्रोतः शीघ्रत्वे सति पूर्णफलकाष्ठादिवहनवत्त्वे सति पूर्णत्वात् पूर्णवृष्टिमन्नदीवदिति । न्यायवा० पृ० ४७ । (B-90) "पूर्ववदिति यत्र यथापूर्वं प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्यानुमानं यथा धूमेनाग्निरिति ।" न्यायभा० ११५ । (B-91) "शेषवद् नाम परिशेषः स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् शिष्यमाणे संप्रत्ययः ।" न्यायभा० १।१५। (B-92) "सामान्यतोदृष्टं तु नित्यपरोक्षे धर्मिणि व्याप्तिग्रहणादनुमानम् । यथेच्छादिना कार्येणात्मानुमानं वक्ष्यते ।" न्यायक० पृ० ३ । सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् । न्यायम० प्रमा० पृ० १२१ । (B-93) "एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते यथा इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम्, प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम्, अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ।" न्यायम० प्रभा० पृ० १२१ । (B-94) "तुलना-गम्भीरगजितारम्भनिभिन्नगिरिगह्वरा । रोलम्बगवलव्यालतमालमलिनत्विषः । त्वङ्गतडिल्लतासङ्गपिशङ्गोतुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैव प्रायः पयोमुचः ।।" न्यायम० प्रमा० पृ० ११७। आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेनच्छटाञ्चितः ॥ वहद्बहलशैवालवनशाद्वलसंकुलः । नदीपूरविशेषोऽपि शक्येत न निवेदितुम् ।। न्यायम० प्रमा० पृ० ११८ । ___ (B-95) “यदा खल्वयं गवा समानधर्मं प्रतिपद्यते तदा प्रत्यक्षतः तमर्थं प्रतिपद्यते इति, समाख्यासंबन्धप्रतिपत्तिरुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थम् इन्द्रियार्थसंनिक दुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसंबन्धं प्रतिपद्यते इति ।" न्यायभा० ११६ (B-96) "प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च । श्रुतिमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः ।" न्यायभा० ता० टी० पृ० १९७ । (B-97) "आप्तोपदेशः शब्दः ।" न्यायसूत्र १११७ । आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । न्यायभा १।१७। (B-98) "आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ।" न्यायसू० १।१९। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712