Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५२५
।।"-महाभा० आदि० १।२७२-७६ । “कालः पचति भूतानि... यस्मिंस्तु पच्यते कालो यस्तं वेद स वेदवित् ।"-मैत्रा० ६।१५, उपनिषद्वाक्यकोष । “कालः कलयते लोकं कालः कलयते जगत् । कालः कलयते विश्वं तेन कालोऽभिधीयते ॥ कालस्य वशगा: सर्वे देवर्षिसिद्धकिनराः । कालो हि भगवान् देवः स साक्षात्परमेश्वरः ।। सर्गपालनसंहर्ता स कालः सर्वतः समः । कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते । येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला । सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥ यः कर्माणि प्रपश्येत प्रकर्षे वर्तमानके । सोऽपि प्रवर्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥ येन मृत्युवशं याति कृतं येन लयं व्रजेत् । संहर्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । कालः स्वपिति जागर्ति कालो हि दुरतिक्रमः ॥ काले देवा विनश्यन्ति काले चासुरपन्नगाः । नरेन्द्राः सर्वजीवाश्च काले सर्वं विनश्यति ॥" हारीत सं० स्था० १ अ० ४ । “केचित् कालं कारणतया वर्णयन्तिकालः सृजति भूतानि..."-सांख्य० माठर० पृ० ७६ । माध्य० वृ० पृ० ३८६ ।चतःश० प०३८।लोकत० १६१।सन्मति० टी०प०७११ । "कालो सव्वं जणयदि कालो सव्वं विणस्सदे भूदं । जागत्ति हि सुत्तेसु वि ण सक्कदे वंचि, कालो ॥"-गो० कर्म० गा० ८७९ ।
(A-14) "उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यम् । तद्यथा..."-नन्दि० मलय० पृ० २१४ A । “तथाऽन्येभिदधते-समस्तमेतज्जीवादि ईश्वरात्प्रसूतम्..."-आचा० शी० १।१।१।४ । बुद्धच० ९।६३ । “अण्णाणी हु अणीसो अप्पा तस्स य सुहं च दुक्खं च । सग्गं णिरयं गमणं सव्वं ईसरकयं होदि ॥"-गो० कर्म० गा० ८८० । २. "यतो वा इमानि भूतानि जायन्ते...."-तैत्ति० २।१।१ । “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतः पात् । संबाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन् देव एकः ॥"-श्वेता० ३।३। "अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।"-गीता १०।८। “यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।"-गीता १५।१७। "संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम्"-वैशे० २।१।१८ । “ईश्वरः कारणं पुरुष कर्माफल्यदर्शनात्"-न्यायसू० ४।१।२० । ३. श्लोकोऽयं निम्नग्रन्थेष्वपि समुद्धृतःशास्त्रावा० श्लो० १६५ । सूत्र० शी० पृ० २५६ । सन्मति० टी० पृ० ६९ । प्रमाणमी० पृ० १२॥ नन्दि० मलय० पृ० २१४ ।
(A-15) "तथाऽन्ये ब्रुवते-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते किं तर्हि ? आत्मनः । कः पुनरयमात्मा ? आत्माद्वैतवादिनां विश्वपरिणतिरूपः । उक्तं च एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।" तथा "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् इत्यादि।"-आचा० शी० १।१।१।४ । बुद्धच० ९।६४ । सन्मति० टी० पृ० ७१५ । नन्दि० मलय० पृ० २१४ A । "वेदवादिनः पुनरित्थं कारणमाहुः-'पुरुष एवेदं सर्वम्' इत्यतः पुरुषः कारणमाहुः ।"-सांख्य० माठर० पृ० ७५ । “एक्को चेव महप्पा पुरिसो देवो य सव्ववावी य । सव्वंगणिगूढो वि य सचेयणो णिग्गुणो परमो ॥"-गो० कर्म० गा० ८८१ ।
(A-16) "पुरुष एवेदं यद्भूतं यच्च भाव्यम् । यदिदं वर्तमानं जगत् सर्वं तत् पुरुष एव । यच्च भूतमतीतं जगत् यच्च भाव्यं भविष्यज्जगत्तदपि पुरुष एव । यथा अस्मिन् कल्पे वर्तमानाः प्राणिदेशः सर्वेपि विराट्पुरुषस्यावयवाः तथैव अतीतागामिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः ।"-ऋग्वे० पुरुषसू० सायणभा०। श्वेताश्व०३।१५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712