Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 640
________________ षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ ५२७ (A-21) "तथा नास्त्येव जीवादिकः पदार्थ इत्येवं वादिनः अक्रियावादिनः ।" सूत्र० शी० १।१२ । आचा० शी०१।१।१।४। “अक्रियां क्रियाया अभावम्, न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति यद्भावे च अनवस्थितेरभावादित्येवं ये वदन्ति ते अक्रियावादिनः । तथा चाहुरेके-'क्षणिकाः सर्वसंस्कारा.... ।' इत्यादि । अन्ये त्वाहुः अक्रियावादिनो ये ब्रुवते किं क्रियया, चित्तशुद्धिरेव कार्या, ते च बौद्धा इति । अन्ये तु व्याख्यान्ति-अक्रियां जीवादिपदार्थो नास्तीत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः।"-भग० अभ० ३०११ । “अक्रियावादिनो नास्तिका इत्यर्थः ।"-स्था० अभ० ४।४।३४५ । नन्दि० मलय० पृ० २१५ A। (A-22) मरीचिकुमारकपिलोलूकगार्यव्याघ्रभूतिवाद्धलिमाठरमौद्गलायनादीनामक्रियावाददृष्टीनां चतुरशीतिः ।"-राजवा० पृ० ५१।। (A-23) उद्धृतोऽयम् - "क्षणिकाः.... भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।।"-बोधिचर्या० पं० पृ० ३७६ । “तत्रेदमुक्तं भगवता-क्षणिकाः.... भूतिर्येषां क्रिया सैव कारकं सैव..."-तत्त्वसं० पृ० ११ । "भूतिर्येषां क्रिया सैव कारकं सैव...." नन्दि० मलय० पृ० २१५ A भग० अभ० ३०१ । (A-24) "तेषामपि जीवाजीवास्त्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्तपदार्थाः स्वपरभेदद्वयेन तथा कालयदच्छानियतिस्वभावेश्वरात्मभिः षडिभश्चिन्त्यमानाश्चतरशीति विकल्पा भवन्ति । तद्यथा-'नास्ति जीवः स्वतः कालतः, नास्ति जीव: परतः कालतः' इति कालेन द्वौ लब्धौ । एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिषु प्रत्येकं द्वादश एते सप्तद्वादशकाः चतुरशीतिरिति ।"आचा० शी० १।१।१।४ । सूत्र० शी० १।१२ । नन्दि० मलय० पृ० २१५ A । स्था० अभ० ४।४।३४५। "णत्थि सदो परदो वि य सत्त पयत्था य पुण्णपाऊणा । कालादियादिभंगा सत्तरि चदुपंति संजादा ।। णत्थि य सत्तपदत्था णियदीदो कालदो तिपंत्तिभवा । चोद्दस इदि णत्थित्ते अकिरियाणं च चुलसीदी ॥"-गो० कर्म० गा० ७८४-८५ । (A-25) "अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति । इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा । न चात्मनस्ताद्दगस्ति किंचिल्लक्षणं येन सत्ता प्रतिपद्येमहि । नापि कार्यमणूनामिव महीध्रादिसंभवति । यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत् तस्मान्नास्त्यात्मेति । द्वितीयोविकल्पोऽपि यच्च स्वतो नात्मानं बिभति गगनारविन्दादिकं तत् परतोऽपि नास्त्येव । अथवा सर्वपदार्थानामेव परभागादर्शनात् सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते । उक्तं च- यावद् दृश्यं परस्तावद्भागः स च न दृश्यते । इत्यादि । तथा यदृच्छातोऽपि नास्तित्वमात्मनः । का पुनर्यदृच्छा ? अनभिसंधिपूर्विका अर्थप्राप्तिर्यदृच्छा । अतर्कितोपस्थितमेव... वृथाभिमानः ॥ सत्यं पिशाचाः स्म वने वसामो भेरि कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा भेरी पिशाचाः परिताडयन्ति ॥ यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्ति मयि तालं पतिष्यति, नापि तालस्याभिप्राय: काकोपरि पतिष्यामि, अथ च तत्तथैव भवति । एवमन्यदपि अतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् । एवं जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति।"-आचा० शी० १।१।४। (A-26) “हिताहितपरीक्षाविरहोऽज्ञानिकत्वम्" सर्वार्थसि० ८।१ । “तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति।"-सूत्र० शी० १।१२।स्था० अभ० ४।४।३४५। "कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति ते अज्ञानिकाः ते च वादिनश्चेत्यज्ञाननिकवादिनः । ते चाज्ञानमेव श्रेयः, असञ्चिन्त्यकृत-कर्मबन्धवैफल्यात्, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712