________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५२७
(A-21) "तथा नास्त्येव जीवादिकः पदार्थ इत्येवं वादिनः अक्रियावादिनः ।" सूत्र० शी० १।१२ । आचा० शी०१।१।१।४। “अक्रियां क्रियाया अभावम्, न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति यद्भावे च अनवस्थितेरभावादित्येवं ये वदन्ति ते अक्रियावादिनः । तथा चाहुरेके-'क्षणिकाः सर्वसंस्कारा.... ।' इत्यादि । अन्ये त्वाहुः अक्रियावादिनो ये ब्रुवते किं क्रियया, चित्तशुद्धिरेव कार्या, ते च बौद्धा इति । अन्ये तु व्याख्यान्ति-अक्रियां जीवादिपदार्थो नास्तीत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः।"-भग० अभ० ३०११ । “अक्रियावादिनो नास्तिका इत्यर्थः ।"-स्था० अभ० ४।४।३४५ । नन्दि० मलय० पृ० २१५ A।
(A-22) मरीचिकुमारकपिलोलूकगार्यव्याघ्रभूतिवाद्धलिमाठरमौद्गलायनादीनामक्रियावाददृष्टीनां चतुरशीतिः ।"-राजवा० पृ० ५१।।
(A-23) उद्धृतोऽयम् - "क्षणिकाः.... भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।।"-बोधिचर्या० पं० पृ० ३७६ । “तत्रेदमुक्तं भगवता-क्षणिकाः.... भूतिर्येषां क्रिया सैव कारकं सैव..."-तत्त्वसं० पृ० ११ । "भूतिर्येषां क्रिया सैव कारकं सैव...." नन्दि० मलय० पृ० २१५ A भग० अभ० ३०१ ।
(A-24) "तेषामपि जीवाजीवास्त्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्तपदार्थाः स्वपरभेदद्वयेन तथा कालयदच्छानियतिस्वभावेश्वरात्मभिः षडिभश्चिन्त्यमानाश्चतरशीति विकल्पा भवन्ति । तद्यथा-'नास्ति जीवः स्वतः कालतः, नास्ति जीव: परतः कालतः' इति कालेन द्वौ लब्धौ । एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिषु प्रत्येकं द्वादश एते सप्तद्वादशकाः चतुरशीतिरिति ।"आचा० शी० १।१।१।४ । सूत्र० शी० १।१२ । नन्दि० मलय० पृ० २१५ A । स्था० अभ० ४।४।३४५। "णत्थि सदो परदो वि य सत्त पयत्था य पुण्णपाऊणा । कालादियादिभंगा सत्तरि चदुपंति संजादा ।। णत्थि य सत्तपदत्था णियदीदो कालदो तिपंत्तिभवा । चोद्दस इदि णत्थित्ते अकिरियाणं च चुलसीदी ॥"-गो० कर्म० गा० ७८४-८५ ।
(A-25) "अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति । इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा । न चात्मनस्ताद्दगस्ति किंचिल्लक्षणं येन सत्ता प्रतिपद्येमहि । नापि कार्यमणूनामिव महीध्रादिसंभवति । यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत् तस्मान्नास्त्यात्मेति । द्वितीयोविकल्पोऽपि यच्च स्वतो नात्मानं बिभति गगनारविन्दादिकं तत् परतोऽपि नास्त्येव । अथवा सर्वपदार्थानामेव परभागादर्शनात् सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते । उक्तं च- यावद् दृश्यं परस्तावद्भागः स च न दृश्यते । इत्यादि । तथा यदृच्छातोऽपि नास्तित्वमात्मनः । का पुनर्यदृच्छा ? अनभिसंधिपूर्विका अर्थप्राप्तिर्यदृच्छा । अतर्कितोपस्थितमेव... वृथाभिमानः ॥ सत्यं पिशाचाः स्म वने वसामो भेरि कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा भेरी पिशाचाः परिताडयन्ति ॥ यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्ति मयि तालं पतिष्यति, नापि तालस्याभिप्राय: काकोपरि पतिष्यामि, अथ च तत्तथैव भवति । एवमन्यदपि अतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् । एवं जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति।"-आचा० शी० १।१।४।
(A-26) “हिताहितपरीक्षाविरहोऽज्ञानिकत्वम्" सर्वार्थसि० ८।१ । “तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति।"-सूत्र० शी० १।१२।स्था० अभ० ४।४।३४५। "कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति ते अज्ञानिकाः ते च वादिनश्चेत्यज्ञाननिकवादिनः । ते चाज्ञानमेव श्रेयः, असञ्चिन्त्यकृत-कर्मबन्धवैफल्यात्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org