________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, साक्षीपाठ
तथा न ज्ञानं कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानामसंपूर्णवस्तुविषयत्वादित्या द्यभ्युपगमवन्तः । " -भग० अभ० ३०।१ । अथवा अज्ञानेन चरन्तीति अज्ञानिका: असञ्चिन्त्यकृतबन्ध - वैफल्यादिप्रतिपत्तिलक्षणाः । तथाहि ते एवमाहुः न ज्ञानं श्रेयः... नन्दि० मलय० पृ० २१५ B
-
५२८
(A-27) “ते चामी-जीवादयो नव पदार्थाः उत्पत्तिश्च दशमी, 'सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्यः' इत्येतैः सप्तभिः प्रकारैः विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति । भावना चेयम् - सन् जीव इति को वेत्ति । किं वा तेन ज्ञातेन । असन् जीव इति को जानाति । किं वा तेन ज्ञातेन । इत्यादि । एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः । नवसप्तकाः त्रिषष्टिः । अमी चान्ये चत्वारः त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा सती भावोत्पत्तिरिति को जानाति । किं वाऽनया ज्ञातया । एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति । किं वानया ज्ञातयेति ? शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम् । एतच्चतुष्टयप्रक्षेपात् । सप्तषष्टिर्भवन्ति । " - आचा० शी - १ । १ । १।४ । नन्दि० मलय० पृ० २१७ । सूत्र० शी० १।१२ । स्था० अभ० ४ । ४ । ३४५ । " को जाणइ णवभावे सत्तमसत्तं दयं अवच्चमिदि । अवयणजुदसत्ततयं इदि भंगा होंति तेसट्ठी । को जाणइ सत्तचऊ भावं सुद्धं खु दोण्णिपंतिभवा । चत्तारि होंति एवं अण्णाणीणं तु सत्तट्ठी ॥ जीवादि नवपदार्थेषु एकैकस्य अस्त्यादिसप्तभङ्गेषु एकैकेन जीवोऽस्तीति को जानाति । जीवो नास्तीति को जानाति । इत्याद्यालापे कृते त्रिषष्टिर्भवन्ति । पुनः शुद्धपदार्थ इति लिखित्वा तदुपरि अस्ति नास्ति अस्तिनास्ति अवक्तव्य इति चतुष्कं लिखित्वां एतत्पङ्क्तिद्वयसंभवाः खलु भङ्गाः शुद्धपदार्थोऽस्तीति को जानीते । इत्यादयश्चत्वारो भवन्ति । एवं मिलित्वा अज्ञानवादा: सप्तषष्टिः । " -गो० कर्म० टी० गा० ८८६-८७ ।
(A-28) " तत्र सन् जीव इति को वेत्ति इत्यस्यायमर्थः न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैर्ज्ञातैः किंचित्फलमस्ति । तथाहि यदि नित्यः सर्वगतोऽमूर्ती ज्ञानादिगुणोपेत एतद्गुण-व्यतिरिक्तो वा, ततः कतमस्य पुरुषार्थस्य सिद्धिरिति तस्मादज्ञानमेव श्रेयः । अपि च, तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दोष:, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुकस्थविरोपाध्याय-सूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमिति । " - आचा० शी० १।१।१।४ । नन्दि० मलय० पृ० २१७ बी० ।
(A-29) "सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम् " - सर्वार्थसि० ८१ । “तथा विनयादेव मोक्ष इत्येवं गोशालमतानुसारिणो विनयेन चरन्तीति वैनयिको व्यवस्थिताः " सूत्र० शी० १।६।२७ । " तथा वैनयिका विनयादेव केवलात् स्वर्गमोक्षावाप्तिमभिलषन्तः मिथ्यादृष्टयः...." - सूत्र० शी० १।१२ । “विनयेन चरति सवा प्रयोजन एषामिति वैनयिकाः ते च ते वादिनश्चेति वैनयिकवादिनः, विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्त्येवंशीलाश्च ते वैनयिकवादिनः विधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणाः...." भग० अभ० ३०।१ । स्था० अभ० ४।४।३४५ ।
(A-30)
द्वात्रिंशत् । एषां दृष्टिशतानां त्रयाणां त्रिषष्ठ्युत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते ।" - राजवा० पृ० ५१ ।
“वसिष्ठपाराशरजतुकणिवाल्मीकिरोमर्षिसत्यदत्तव्यासैलापुत्रोपमन्यवैन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां
(A-31) “सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदानचतुर्विधविनयकरणात् । तद्यथा देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति । नीचैर्वृत्यनुत्सेकलक्षणो हि विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषु उपतिष्ठमानः
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org