________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
५२९
स्वर्गापवर्गभाग् भवति ।"-आचा० शी० १।१।१४ । सूत्र० शी० १।१२ । स्था० अभ० ४।४।३४५ । नन्दि० मलय० पृ० २१७ बी० । “मणवयणकायदाणगविणवो सुरणिवइणाणिजदिवुड्डे। बाले मादुपिदुम्मि च कायव्वो चेदि अट्ठचऊ ॥ - देवनृपतिज्ञानियतिवृद्धबालमातृपितृष्वष्टसु मनोवचनकायदानविनयाश्चत्वारः कर्तव्याश्चेति द्वात्रिंशद्वैनयिकवादाः स्युः ।" गो० कर्म० टी० गा० ८८८ ।
(A-32) "नानी(रो)श्वरजं केचित् केचित् सोमाग्निसंभवं लोकम् । द्रव्यादिषड्विकल्पं जगदेतत् केचिदिच्छन्ति ।" लोकत० १४१ ।।
(A-33) "इच्छन्ति काश्यपीयं केचित्सर्वं जगन्मनुष्याद्यम् । दक्षप्रजापतीयं त्रैलोक्यं केचिदिच्छन्ति ।" - लोकत० ११४५ ।
(A-34) "केचित्प्राहुर्मूर्तिस्त्रिधा गतैका हरिः शिवो ब्रह्मा । शंभुर्बीजं जगतः कर्ता विष्णुः क्रिया ब्रह्मा ।। वैष्णवं केचिदिच्छन्ति केचित्कालकृतं जगत् । ईश्वरप्रेरितं केचित् केचिद् ब्रह्मविनिर्मितम् ॥ अव्यक्तप्रभवं सर्वं विश्वमिच्छन्ति कापिलाः । विज्ञप्तिमात्रं शून्यं च इति शाक्यस्य निश्चयः ॥ पुरुषप्रभवं केचित् दैवात् कैचित् प्रभावतः। अक्षरात् क्षरितं केचित् केचिदण्डोद्भवं जगत् । यादृच्छिकमिदं सर्वं केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु बहुधा संप्रधाविताः ।।" लोकत० १।४६-५० ।
(A-35) "जले विष्णुः स्थले विष्णुराकाशे विष्णुमालिनि । विष्णुमालाकुले लोके नास्ति किंचिदवैष्णवम् ॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमाल्लोंके सर्वमाश्रित्य तिष्ठति ।" लोकत० १५१-५२।
(A-36) "तस्मिन्नेकार्णवीभूते नष्टस्थावरजङ्गमे । नष्टामरनरे चैव प्रनष्टोरगराक्षसे । केवलं गह्वरीभूते महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥ तत्र तस्य शयानस्य नाभौ पद्मं विनिर्गतम् । तरुणार्कमण्डलनिभं हृद्यं काञ्चनकणिकम ।। तस्मिस्च पद्मे भगवान दण्डकमण्डलयज्ञोपवीतमगचर्म-वस्त्रसंयक्तः । ब्रह्मा तत्रोत्पन्नः तेन जगन्मान्तरः सृष्टाः । अदितिः सुरसंघानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहंगमानां माता विश्वप्रकाराणाम् । कद्रूः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानाम् इला पुनः सर्वबीजानाम् ।। प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति ॥" लोकत० १५४-६० ।
(A-37) "पद्मजब्रह्मजनित (मातृज) म् आ० । – पद्मजं त एव ब्रह्मज भ० २।"
(A-38) "केचिद्वदन्त्यवर्ण सृष्टं वर्णादिभिस्तेन । कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेसु जागति कालो हि दुरतिक्रमः ॥" लोकत० १६०-६१ ।
__(A-39) "प्रकृतीनां यथा राजा रक्षार्थमिव चोद्यतः । तथा विश्वस्य विश्वात्मा स जागति महेश्वरः ।। अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव च ॥ सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः । चन्द्रार्काग्निक्षितिजल-मरुद्दीक्षिताकाशमूर्तिः । ध्येयो नित्यं शमसुखरतैरीश्वरः सिद्धिकामैः ॥"-लोकत० १।६२-६४।
(A-40) "ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रोऽजायत ॥१२॥ अस्य प्रजापतेाह्मणो ब्राह्मणत्वजातिविशिष्टः पुरुषो मुखमासीत् मुखादुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियत्वजातिविशिष्टः स बाहूकृतो बाहुत्वेन निष्पादितो बाहुभ्यामुत्पादित इत्यर्थः । तत्तदानीमस्य प्रजापतेर्यद्यावुरू तद्रूपो वैश्यः संपन्नः उरुभ्यामुत्पादित इत्यर्थः । तथाऽस्य पद्भ्यां पादाभ्यां शूद्रः शूद्रत्वजातिमान् पुरुषोऽजायत । इयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org