________________
५३०
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजु संहितायां सप्तमकाण्डे स मुखतस्त्रिवृत्तं निरमिमीत इत्यादौ विस्पष्टमाम्नाता।" ऋक्० पुरुषसू० । “आसीदिदं तमोभूतमप्रज्ञात-मलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ लोकानां स च वृद्धयर्थं मुखाबाहुरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च विन्यवर्तयत् ।"-लोकत० १६५-६७ । “एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्माऽतिशयज्ञानवैराग्यैश्वर्यसंपन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णान् अन्यानि चोच्चावचानि सृष्ट्वा...." प्रश० भा० पृ० २२ ।
(A-41) "इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥" सांख्यका० ५६ ।
(A-42) "विज्ञप्तिमात्रमेवेदमसदर्थावभासनात् । यथा तैमिरिकस्यासत्केशपाशादिदर्शनम् ।।" विज्ञप्ति० श्लो०१।
(A-43) "अक्षरात् क्षरित: कालस्तस्माद् व्यापक इष्यते । व्यापकादिप्रकृत्यन्तां तां हि सृष्टिं प्रचक्षते । अक्षरांशस्ततो वायुस्तस्मात्तेजस्ततो जलम् । जलात् प्रसूता पृथ्वी भूतानामेष संभवः ॥" लोकत० २।२३-२४ ।
(A-44) "नारायणपराव्यक्तादण्डमव्यक्तसंभवम् । अण्डस्यान्तस्त्वमी भेदाः सप्त द्वीपा च मेदिनी । गर्भोदकं समुद्राश्च जरायुश्चापि पर्वताः । तस्मिन्नण्डे त्वमी लोकाः सप्त सप्त प्रतिष्ठिताः । तत्रेहाद्यः स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मना ध्यात्वा तदण्डमकरोद् द्विधा । ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे।" लोकत० २।२५-२७।
(A-45) "हेतुरहिता भवन्ति हि भावा : प्रतिसमयभाविनश्चित्राः । भावादृते न भाव्यं संभवरहितं खपुष्पमिव ॥" लोकत० २।२८ ।
(A-46) "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ।।" लोकत० २।२९ ।
(A-47) "प्रतिसमयं परिणामः प्रत्यात्मगतश्च सर्वभावानाम् । संभवति नेच्छयापि स्वेच्छा क्रमवर्तिनी यस्मात् ॥" लोकत० २।३० ।
(A-48) "कारणानि विभिन्नानि कार्याणि च यतः पृथक् । तस्मात्रिष्वपि कालेषु नैव कर्मास्ति निश्चयः ॥" लोकत० २।३५ ।
(A-49) एतेषां निकायानां वर्णनं विनयपिटकभूमिकायामित्थम् - "चुल्लवग्गके सप्तशतिकास्कन्धक (पृ० ५४९) से मालूम है कि-बुद्धनिर्वाण के १०० वर्ष बाद बौद्धभिक्षु दो निकायों (सम्प्रदायों) में विभक्त हो गये। प्राचीन बातों के दृढ पक्षपाती स्थविर कहलाते थे और विनयविरुद्ध कुछ नयी बातों के प्रचार करनेवाले महासांघिक। पाली की कथावत्थुअट्ठकथा, दीपवंस, महावंस तथा कुछ और ग्रन्थों के अनुसार बुद्धनिर्वाण के २२० वर्षों बाद सम्राट अशोक के समय महासांघिकों और स्थविरों में फिर कितने ही छोटे-मोटे मतभेद होकर १८ निकाय हो गये। कथावत्थुअट्ठकथा के अनुसार यह शाखाभेद इस प्रकार है -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org