________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-५, साक्षीपाठ
(A-17) "तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति । का पुनरियं नियतिरिति ? उच्यतेपदार्थानामवश्यंतया यद्यथा भवने प्रयोजककर्त्री नियतिः । उक्तं च- 'प्राप्तव्यो नियतिबलाश्रयेण... इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति ।" आचा० शी० १।१।१।४ । स्था० अभ० ४ । ४ । ३४५ | सन्मति० टी० पृ० ७१४ । नन्दि० मलय० पृ० २१४ A । “न चर्ते नियतिं लोके मुद्रपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यत: ।। अन्यथाऽनियतत्वेन सर्वाभाव: प्रसज्यते । अन्योऽन्यात्मकतापत्तेः क्रियावैफल्यमेव च ॥"शास्त्रवा० श्लो० १७५-७६ । “जत्तु जदा जेण जहा जस्स य णियमेण होदि तत्तु तदा । तेण तहा तस्स हवे इदि वादो णियदिवादो दु || गो० कर्म० गा० ८८२ ।
T
५२६
1
(A-18) “केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च । स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्न: ।। यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव । संयुज्यते यज्जरयार्त्तिभिश्च कस्तत्र यत्त्रो ननु स स्वभावः ॥ यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः । यदात्मानस्तस्य च तेन योग: स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ॥ कः कण्टकानां... " - बुद्धच० ६।५८- ६२ । " अपरे स्वभावमाहुः - स्वभावः कारणमिति । तथाहि-येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स नो वृत्तिं विधास्यति ॥" सांख्य० माठर० पृ० ७५ । “सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् । राजीकेसरादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥ यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम् । कादाचित्कतया तद्वद् दुःखादीनामहेतुता ॥" - तत्त्वसं० का० ११०-११२ । बोधिचर्या० पं० पृ० ५४१ । “न स्वभावातिरेकेण गर्भबालशुभादिकम् यत्किंचिज्जायते लोके तदसौ कारणं किल ॥ सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखा ॥ न विनेह स्वभावेन मुद्द्रपक्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमासस्य सा यत: ।। अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारतः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ शास्त्रवा० श्लो० १६९-१७२ । “अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति । कः पुनरयं स्वभावः ? स्वत एव तथापरिणतिभाव: स्वभाव: । उक्तं च- कः कण्टकानां प्रकरोति ॥ स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति । केनाञ्जितानि नयनानि मृगाङ्गनानां कोऽलंकरोति रुचिराङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति को वा दधाति विनयं कुलजेषु पुंस्सु ।। " - आचा० शी० १ । १ । १ । ४ । सन्मति० टी० पृ० ७११ । नन्दि० मलय० पृ० २१४ । " को करइ कंटयाणं तिक्खत्तं मियविहंगमादीणं विविहत्तं तु सहाओ हदि सव्वं पिय सहाओत्ति ॥ " - गो० कर्म० गा० ८८३ ।
(A-19) "तत एवं स्वत इति पदेन लब्धाः पञ्च विकल्पाः । एवं परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धा: एवमनित्यपदेनापि दश, सर्वे मिलिता विंशति: । एते च जीवपदार्थेन लब्धाः । एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येकं विंशतिर्विंशतिर्विकल्पा लभ्यन्ते, ततो विंशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भवति । " - नन्दि० मलय० पृ० २१४ B
(A-20) “तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ? नन्वेतत् प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदः यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति । एवमेव च अनात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुनि आत्मबुद्धिः प्रवर्तते इति, अतो यदात्मनः स्वरूपं तत् परत एवावधार्यते न स्वत इति ।" - आचा० शी० १ । १ । १ । ४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org