Book Title: Shaddarshan Samucchaya Part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 649
________________ षड्दर्शन समुच्चय भाग - १, परिशिष्ट-५, साक्षीपाठ किंतु तद्व्यापकविरहात् । तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । तत: कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधात् निवृत्तेस्तद्व्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्व्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- यत् सत् तत् क्षणिकमेव इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति ।" हेतुबि० पृ० १४६ । ५३६ (A-88) " प्रमाणमविसंवादि ज्ञानं, अर्थक्रियास्थितिः । अविसंवादनं ।" - प्र० वा० १।३ । "अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।" न्यायबि० टी० पृ० १७ । (A-89) “लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थं प्रापयत् संवादकमुच्यते। प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम्, नान्यत् । तथाहि न जनयदर्थं प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ।" न्यायबि० टी० पृ० १७ । 1 (A-90) “प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् । प्रापकत्वाच्च प्रमाणम् ||" न्यायबि० टी० पृ० २१ (B-1) तुलना - “मूलातिशयाश्चत्वारः । तद्यथा - अपायापगमातिशयः, ज्ञानातिशयः, पूजतिशयः, वागतिशयश्च ।" अनेकान्तज० स्व० पृ० ४ । " यथाक्रमं भगवतो मूलातिशयाश्चत्वारः स्मृतिमुकुरभूमिकामानीयन्ते । तद्यथा- अपायापगमातिशयो... एतेषां चातिशयानामियमुपन्यासे तथोत्पत्तिरेव निमित्तम्, तथाहिनाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति । न चाविश्ववस्तुज्ञः शक्रपूज्यः संपद्यते । न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुङ्क्त इति । " - स्या० र० पृ० ४ । स्या० म० का० १ । काललो० श्लो० ९९७ । (B-2) "यथा हि अंगसंभारा होति सद्दो रथो इति । एवं खंधेसु होति सत्तोति सम्मुति ॥" मिलिन्द० । “नन्वनित्येषु भावेषु कल्पना नाम जायते-यथोपवर्णितेन न्यायेन स्वरूपसिद्धस्य स्कन्धव्यतिरिक्तस्यात्मनः सर्वथाऽभावात् । नन्वनित्येषु रूपवेदनासंज्ञासंस्कारविज्ञानाख्येषु भावेषु आत्मेति कल्पना अभूतार्थारोपणं क्रियते आत्मा सत्त्वो जीवो जन्तुरिति । यथाहि इन्धनमुपादायाग्निः एवं स्कन्धानुपादाय आत्मा प्रज्ञप्यते । " चतुःश० वृ० १०।३ । “नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥" अभिध० ३।१८ । बोधि० पं० पृ० ४७४ । “स एवं स्कन्धसमुदायलक्षणः प्रज्ञप्तिसन्....” तत्त्वसं० पृ० १३१ । (B-3) "कतमं च भिक्खवे दुक्खसमुदयं अरियसच्चं ? यायं तण्हा पोनोभविका नन्दिरागसहगता तत्र तत्राभिनन्दिनी सेयथीदं कामतण्हा भवतण्हा विभवतण्हा । " म० नि० महाहत्थि० । विसुद्धि० १६ । ६१ (B-4) “यथा चिरकालीनाध्ययनादिखिन्नस्य अस्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डुकाख्यः कश्चिन्नयनाग्रे परिस्फुटति । अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डुकः । " शास्त्रदी० युक्ति० पृ० ९९ । (B-5) "नोच्यते-यस्मिन्नेव काले परिच्छिद्यते तस्मिन्नेव काले प्रापयितव्यमिति । अन्यो हि दर्शनकाल:, अन्यश्च प्राप्तिकालः । किन्तु यत्कालं परिच्छिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसायाच्च संतानगतमेकत्वं द्रष्टव्यमिति ।" न्यायबि० टी० पृ० २६ । Jain Education International For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712