________________
षड्दर्शन समुच्चय भाग - १, श्लोक - ३१, नैयायिक दर्शन
२१५
का उच्चारण से पूर्व (पहले) भी अस्तित्व है। और दोनो प्रकार से भी अर्थात् प्रयत्न के कार्य के रुप में शब्द का अभाव (अर्थात् शब्द में प्रयत्नानन्तरीयकत्व का अभाव) होने से शब्द नित्य है। यह सिद्ध होता है। इस प्रकार से मीमांसको ने नैयायिको के मत का खंडन किया है।
साध्यधर्मनित्यानित्यविकल्पेन शब्दस्य नित्यत्वापादनंनित्यसमा जातिः । अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति । येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्या वेति । यद्यनित्या तदियमवश्यमपायिनीत्यनित्यताया अपायान्नित्यः शब्दः । अथानित्यता नित्यैव तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दोऽपि नित्य एव स्यात्, तस्यानित्यत्वे तद्धर्मस्य नित्यत्वायोगात् । इत्युभयथापि नित्यः शब्द इति २२ । एवं सर्वभावानामनित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते, तदा घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथाभावेऽपि नानित्यत्वं, तर्हि शब्दस्यापि तन्मा भूदिति, अनित्यत्वमात्रोपपादनपूर्वकविशेषोद्भावनादविशेषसमातो भिन्नेयं जातिः२३ । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमाजातिः । अनित्यः शब्दः प्रयत्नानन्तरीकत्वादित्युक्ते जातिवाद्याह । प्रयत्नस्य द्वैरूप्यं दृष्टम् । किंचिदसदेव तेन जन्यते यथा घटादिकम् । किंचिञ्च सदेवावरणव्युदासादिनाभिव्यज्यते यथा मृदन्तरितमूलकीलकादि गर्भगतपुत्रादि वा । एवं प्रयत्नकार्यनानात्वादेष शब्दः प्रयत्नेन व्यज्यते जन्यते वेति संशय इति । संशयापादनप्रकारभेदाञ्च संशयसमातः कार्यसमा जातिभिद्यते २४ । तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्येऽप्यसंकीर्णोदाहरणविवक्षया चतुर्विंशतिर्जातिभेदा एते प्रदर्शिताः । प्रतिसमाधानं तु सर्वजातीनां पक्षधर्मत्वाद्यनुमानलक्षणपरीक्षालक्षणमेव । न ह्यविप्लुतलक्षणे हेतावेवं प्रायाः पाशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृढकृतप्रतिबन्धात् नावरणादिकृतं शब्दानुपलम्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यम्, न तु प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमंजस्य प्रसङ्गादिति ।।३१।।
टीकाका भावानुवाद : (२२) (अनित्यसमा जाति : साध्यधर्म के नित्यत्व और अनित्यत्व के विकल्प के द्वारा शब्द का नित्यत्व सिद्ध करना, उसे नित्यसमा जाति कहा जाता है। जैसे कि, शब्द अनित्य है, ऐसी वादिने प्रतिज्ञा करने से, प्रतिवादि विकल्प करते है कि, जो यह शब्द की अनित्यता कही जाती है। वह क्या नित्य है या अनित्य है? यदि शब्द की अनित्यता को अनित्य मानोंगे तो, वह अवश्य नाश होनेवाली होने से अनित्यता के अपाय
(अ) साध्यधविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिर्भवति ।। न्यायक० पृ. २० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org