________________
२१२
षड्दर्शन समुञ्चय भाग - १, श्लोक - ३१, नैयायिक दर्शन
शब्दोऽर्थादापद्यते, तदा नित्यसाधान्नित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्यममूर्तत्वमित्युद्भावनप्रकारभेद एवायमिति १७ । अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते, तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, तमुमूर्तत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवतीति पक्षद्वयोपपत्त्यानध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ । उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रत्यवतिष्ठते । न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् । साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरीयकत्वे हेतावुपन्यस्ते सत्याह जातिवादी । न प्रयत्नानन्तरीयकः कार्यः शब्दः प्रागुञ्चारणादस्त्येवासी, आवरणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भान्नास्त्येवोञ्चारणात्प्राक्शब्द इति चेत् न । अत्र हि यानुपलब्धिः सा स्वात्मनि वर्तते न वा । वर्तते चेत्तदा यत्रावरणेऽनुपलब्धिर्वर्तते, तस्यावरणस्य, यथानुपलम्भस्तथावरणानुपलब्धेरप्यनुपलम्भः स्यात् । आवरणानुपलब्धेश्चानुपलम्भादभावो भवेत् । तदभावे चावरणोपलब्धे वो भवति । ततश्च मृदन्तरितमूलकलादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुधारणादग्रहणम् । अथानुपलब्धिः स्वात्मनि न वर्तते चेत्, त_नुपलब्धिः स्वरूपेणापि नास्ति । तथाप्यनुपलब्धेरभाव उपलब्धिरूपस्ततोऽपि शब्दस्य प्रागुञ्चारणादप्यस्तित्वं स्यादिति । द्वेधापि प्रयत्नकार्यत्वाभावन्नित्यः शब्द इति २१ । टीकाका भावानुवाद :
(१६) (अहेतुसमा जाति : तीनो काल की (भूत, भविष्य या वर्तमान, ऐसे तीन कालकी) अनुत्पत्ति से हेतु का खंडन करना उसे (५४ हेतुसमा जाति कहा जाता है। जैसे कि "हेतु है, तो वह साध्य के पहले, बाद में या साथ होता है?" यदि हेतु साध्य से पहले हो तो साध्य की अविद्यमानता में वह हेतु किसका साधन होगा? यदि साध्य के बाद हेतु हो, तो साध्य पहले (स्वयं) सिद्ध होने पर वह साधन के द्वारा क्या? और यदि साध्य-साधन साथ हो, तो दाये और बाये गाय के सिंग की तरह एकदूसरे का साध्य-साधनभाव ही नहीं होगा। अर्थात् जैसे गाय के दोनो सिंग एकसाथ पैदा होते होने से गाय का बायां सिंग दायें सिंग का
(५४)न्यायसत्रकारने इस हेतसमा जाति को अहेतसमा जाति कहा है। दोनों का भाव समान है __ "त्रैकाल्यासिद्धर्हेतोरहेतुसमः।" ॥५-१-१८॥ अर्थात् तीनो काल में असिद्ध होने से अहेतुसमा जाति बनती है।
(अ)
काल्यानुपपत्त्या प्रत्यवस्थानमहेतुसमा जातिर्भवति ।। न्यायक० पृ. १९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org