________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - ८, बोद्धदर्शन
ही पडेगा ।) इस अनुसार होने पर भी आयतनो में क्षणिकत्व को सिद्ध करता हुआ अनुमान भी सुलभ है। जैसे कि “यत्सत्तक्षणिकं यथा प्रदीपकलिका।" इस अनुमान से जैसे दीपककी ज्योत सत् है तो क्षणिक भी है। वैसे बारह आयतन सत् है, तो क्षणिक है ही। इस अनुमान से बारह आयतन से अतिरिक्त अन्य पदार्थ का अभाव है। (क्योंकि जगत् में जो कुछ सत् है, उसका इस बारह आयतनो में अन्तर्भाव (समावेश) हो जाता है।) इससे क्षणिकत्व बारह आयतनो में ही रहता है। इस अनुसार सौत्रान्तिक संमत मत से चार दुःखादि तत्त्व है। ___सामान्यतो बौद्धमतेन चायतनरूपाणि द्वादश तत्त्वानि प्रतिपाद्य, संप्रति प्रमाणस्य विशेषलक्षणमत्राभिधानीयम, तञ्चसामान्यलक्षणाविनाभावीति प्रथमं प्रमाणस्य सामान्यलक्षणमुच्यते । "A-88 प्रमाणमविसंवादि ज्ञानम्" [प्र.वा.१/३ इति । अविसंवादकं ज्ञानं प्रमाणम् ।A-89अविसंवादकत्वं चार्थप्रापकत्वेन -90व्याप्तमर्थाप्रापकस्याविसंवादित्वाभावात्, केशोण्डुकज्ञानवतः-4 । अर्थप्रापकत्वंच प्रवर्तकत्वेन व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात् । तद्वदेव प्रवर्तकत्वमपि विषयोपदर्शकत्वेन व्यानशे । न हि ज्ञानं हस्ते गृहीत्वा पुरुषं प्रवर्तयति, स्वविषयं तूपदर्शयत्प्रवर्तकमुच्यते प्रापकं चेति । स्वविषयोपदर्शकत्वव्यतिरेकेण नान्यत्प्रापकत्वम् । तञ्च शक्तिरूपम् । उक्तं च “प्रापणशक्तिः प्रामाण्यं तदेव च प्रापकत्वम्" [ ] इति । स्वविषयोपदर्शके च प्रत्यक्षानुमान एव, न ज्ञानान्तरम् । अतस्ते एव लक्षणार्हे, तयोश्च द्वयोरप्यवि संवादकत्वमस्ति लक्षणम् । प्रत्यक्षेण ह्यर्थक्रियासाधकं वस्तु दृष्टतयावगतं सत्प्रदर्शितं भवति, अनुमानेन तु दृष्टलिङ्गाव्यभिचारितयाध्यवसितं सत्प्रदर्शितं भवतीत्यनयोः स्वविषयदर्शकत्वमेव प्रापकत्वम् । यद्यपि च प्रत्यक्षस्य क्षणो ग्राह्यः, स च निवृत्तत्वान्न प्राप्यते, तथापि तत्संतानोऽध्यवसेयः, प्रवृत्तौ प्राप्यत इति । B-संतानविषयं प्रदर्शितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम् । B-6अनुमानस्य तु लिङ्गदर्शनेन विकल्प्यः स्वाकारो ग्राह्यो, न बाह्योऽर्थः । प्राप्यस्तु बाह्यः स्वाकाराभेदेनाध्यवसित इति । तद्विषयमस्यापि प्रदर्शितार्थप्रापकत्वं प्रामाण्यम् । तदुक्तम्-“न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते” इति(B)। प्राप्यमाणं च वस्तु नियतदेशकालाकारं प्राप्यत इति तथाभूतवस्तुप्रदर्शकयोः प्रत्यक्षानुमानयोरेव प्रामाण्यं, न ज्ञानान्तरस्य । तेन पीतशङ्खादिग्राहिज्ञानानामपि प्रापकत्वात्प्रामाण्यप्रसक्तिर्न भवति, तेषां प्रदर्शितार्थाप्रापकत्वात् । यद्देशकालाकारं हि वस्तु तैः प्रदर्शितं, न तत्तथा प्राप्यते, यञ्च यथा प्राप्यते, न तैस्तत्तथा प्रदर्शितं, देशादिभेदेन वस्तुभेदस्य निश्चितत्वादिति न तेषां प्रदर्शितार्थप्रापकता, ततो न (A) “तथा च प्रत्यक्ष प्रतिभासमानं नियतमर्थं दर्शयति । अनुमानं च लिङ्गसम्वष्टं नियतमर्थं दर्शयति । अत एते नियतस्यार्थस्य
___ प्रदर्शके । तेन ते प्रमाणे । नान्यद्विज्ञानम्” [न्यायवि० टी० पृ० ११] (B) उद्धृतमिदम् - तत्त्वोप० पृ०-२९ ।।
(A-88-89-90)- तु० पा० प्र० प० । (B-4-5-6) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org