________________
स्वस्य चिन्तनेन वशीकृतं चञ्चलचित्तं येन सः। शिवपथपथिकः शिवस्य मोक्षस्य पन्थाः शिवपथस्तस्य पथिकः पान्थः कश्चित् कोऽपि जनः क्वचित कुत्रापि किं पदं चरणं कुपथं कुमार्ग नयति प्रापयति ? अपि तु नैव नयति। ‘अकथितं च' इत्यनेन नयते ढिकर्मकत्वं प्रसिद्धम् ।।२०।।
अर्थ- जिसने उचित और अनुचित को जान लिया है तथा आत्मचिन्तन के द्वारा जिसने चञ्चलचित्त को अपने अधीन कर लिया है, ऐसा मोक्षमार्ग का कोई पथिक कहीं क्या अपना पग कुमार्ग में ले जाता है ? अर्थात् नहीं ।।२०।।
[२१] जिनसमयं जानीत आत्मानं नेति जिनेन स गीतः।
यद्यपि यो भवभीतः प्रमादेन विकारं नीतः ।। 'यद्यपि यो भवभीतः, प्रमादेन विकारं नीतः, जिनसमयं जानीते, सः आत्मानं न (जानीते)' -इति जिनेन (सः) गीतः ।
जिनेति -भवभीतः भवात् संसारात् भीत उद्विग्नः यो जनः प्रमादेन अनवधानतया 'प्रमादोऽनवधानता' इत्यमरः । विकारं विकृतिं नीतः प्राप्तः स यद्यपि जिनसमयं जिनसिद्धान्तं जानीते विपुलं द्रव्यश्रुतं जानाति तथापि आत्मानं ज्ञायकस्वभावमात्मानं न जानाति कर्मनोकर्मभिन्न स्वात्मानं न परिचिनोति । इतीत्थं जिनेनार्हता गीतः कथितः । आत्मज्ञानेन विना द्रव्यश्रुतज्ञानस्य गरिमा नास्तीति भावः ।।२१।।
अर्थ- यद्यपि जो संसार से भयभीत है परन्तु प्रमाद से विकार को प्राप्त हो गया है वह जिनसमय-जिनशास्त्र को जानता हुआ भी आत्मा को नहीं जानता है, ऐसा जिनेन्द्र भगवान् ने कहा है। .
भावार्थ-आत्मज्ञान के बिना ग्यारह अङ्ग और नौ पूर्व का विशाल श्रुतज्ञान भी मोक्षमार्ग में सहायक नहीं है, परन्तु आत्मज्ञान से सहित अष्टप्रवचनमातृका का अल्पज्ञान भी आत्मा को केवलज्ञानी बना देता है।।२१।।
[२२] मायादिभावमवहन्ननघज्ञानघनौघममलं महः ।
मुहुः कलयामि तदहमुदीक्ष्य मयूरो मुदा सह ।। मायादिभावम् अवहन् अहं मयूरः तद् अमलं महः अनघज्ञानघनौघं मुहुः उदीक्ष्य मुदा सह कलयामि |
मायादीति- मायादिभावं दम्भादिविकृतिपरिणतिम् अवहन् अदधत् अहं स्तोता
(१२)