Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 211
________________ ૨૭૮ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । विवक्षितमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वा हजुसूत्राद् विशेषिततरवस्तुग्राहित्वाच; स्याद्वादिनस्तु सम्पूर्ण सप्तभङ्गयात्मकमपि प्रतिपद्यन्ते " इति विशेषावश्यकवृत्चावुक्तम् । तत्रायं विचारावकाशः-किमियं सप्तभङ्गी अर्थनयाश्रिता ? उत शब्दनयाश्रिता ? आये तदेकतरभङ्ग विशेषणे कथमृजुसूत्राच्छब्दस्य विशेषिततरत्वम् , अर्थनयाश्रितभङ्गस्य शब्दनयाविशेषकत्वात् , उभयेषां विषयविभागस्य दूरान्तरत्वात् , द्वितीयविकल्पे ऋजुसूत्राभिमतार्थपर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायप्राहिणः कुतः शब्दस्य विशेषिततरार्थत्वम् ? नहि तदविषयविषयकत्वं विशेषितशब्दार्थः, किन्तु तद्विषयताव्याप्यविषयताकत्वमिति, न चर्जुसूत्राभिमतसत्त्वमुपमृद्यासत्त्वाख्यद्वितीयभङ्गोत्थापनाच्छब्दस्य विषयीभूतधर्माकलितं घटादिकमृजुसूत्रोऽभ्युपगच्छति तदन्यधर्माकलितं घटादिकं भङ्गान्तरेण प्रतिपादयितुं प्रभवति शब्दनय इति सप्तमत्यर्पणं समनुगतमेवमपीत्याशयेनाह-ऋजुसूत्रादिति । ननु ऋजुसूत्रनयो यद्भङ्गात्मकवाक्यमुररीकरोति तदन्यभङ्गात्मकवाक्यमेव शब्दनयोऽभ्युपैति, नैकोऽपि नयः सप्तभङ्गात्मकमहावाक्यं स्त्रीकरोतीति परस्परविरुद्धधर्माभ्युपगन्त्रोर्नययोर्मल्ल-प्रतिमल्लभावेन व्यवस्थिततया अभ्युपगमपदवीमप्राप्तायाः सप्तभङ्गया अर्पणमेव न सम्भवतीत्यत आह-स्थाद्वा. दिनस्त्विति-अस्य 'प्रतिपद्यन्ते' इत्यनेनान्धयः, तथा च स्याद्वादिनः सर्वनयाभिप्रेतान् धर्मानभ्युपगच्छन्तस्तत्तद्धर्मप्रतिपादकतत्तन्नयाभिमतभङ्गसमूहात्मिकां सप्तभङ्गोमुत्थापयितुं प्रभविष्णव एव, त एव च 'एतन्नयाभ्युपगतैतद्भनेनायं धर्मः प्रतिपाद्यते, अयं च धर्म एतन्नयाभ्युपगतेन प्रतिपाद्यते' इत्येवं नययोजनां च कुन्तीति सप्तभनथर्पणं युक्तमेवेति । नन्वेवं नयद्वययोजनया नयत्रययोजनया वा सप्तभङ्गी स्थाद्वादिप्रवर्ति । भवति, नयानां चार्थनय-शब्दनयभेदेन द्वैविध्यम् , तथा च सप्तभाया अप्यर्थनयाश्रित-शब्दनयाश्रितभेदेन द्वैविध्यम् , एवं च प्रकृते कस्याः सप्तभङ्या अर्पणम् , न तावदर्थनयाश्रितायाः, तथा सति तद्धटकभङ्गस्य कस्यविजुसूत्रनयाभिमतत्वेऽपि शब्दनयाभिमतत्वाभावेन तदर्पणेन विशेषिततरत्वस्य प्रतिपादनासम्भवात् , नापि शब्दनयाश्रितायाः, तद्धट कभङ्गस्य कस्यविच्छन्दनयाभिमतत्रेऽपि ऋजुसूत्राभिमतत्वाभावेन तदर्पणेन ऋजुसूत्राद् विशेषिततरत्वस्य वक्तुमशक्यत्वात् , तथा च किमत्र तत्त्वमित्याशङ्काशङ्कुसमुन्मूलनाय ग्रन्थकारोऽभिनवविचारपल्लवनद्वारा स्वाभित्रायं प्रकटयितुमाह -तत्रेति- सप्तभकर्षणादृजुसूत्रनयाच्छन्दनयस्य विशेषिततरार्थावगाहित्वे इत्यर्थः । इयमर्पगविषयतयाऽभिमता। आधे अर्थनयाश्रिता सप्तभङ्गी प्रकृते अर्पणविषयतयाऽभिमतेति प्रथमपक्षे । “तदेकतरभङ्गविशेषणे" इति स्थाने " तदेकतरभङ्गविशेषणेन" इति पाठो युक्तः, अर्थनयाश्रितसप्तभङ्गीघटकैकभङ्गविशेषणेनेत्यर्थः, भात्य विशेषगवं स्वार्थद्वारा बोध्यम् । अर्थनयाश्रितवं सप्तभङ्गायाः स्वघटकभङ्गस्यार्थ नयाश्रितत्वादेवेत्यर्थनयाश्रितभङ्गस्यार्थनयविषय एव विषयो न तु शब्दनयविषय इत्यन्यविषयकस्य नान्यविषयविशेषकत्वमित्याह-अर्थनयाश्रितमकस्मेति । य एवार्थनयविषयः स एव यदि शब्दनयविषयोऽपि स्यात् स्यात् तदाऽर्थनयाश्रितभन्नः शब्दनयविषयविशेषकत्वाच्छन्दनयविशेषकः, न चैवमित्याह-उभयेषामिति- शब्दन या ऽर्थनयानामित्यर्थः । दूरान्तरत्वात् अत्यन्तभिन्नत्वात् । द्वितीयविकलो असंगविषयतयाऽभिमता सप्तभङ्गो शब्दनयाश्रितेति द्वितीयपक्षे । शब्दनयाश्रितभङ्ग ऋजुसूत्रविषयार्थपर्यायविषयको न भवति तस्य शब्दनयविषयाशुद्धव्यञ्जनपर्यायविषयकत्वादिति न तेनर्जुसूत्राच्छब्दनयस्यावशेषिततरत्वमित्याह-ऋजुसूत्रेति । यदि तदविषयविषयकत्वं ततो विशेषिततरत्वं स्यात् स्यात् तदा ऋजुसूत्राविषयव्यञ्जनपर्यायविषयकत्वाच्छब्दस्य विशेषितरत्वम् , न चैवमित्याह- नहीति। तर्हि किं विशेषितशब्दार्थ इति पृच्छति-किन्विति । उत्तरयति-तद्विषयतेति- यथा नैगमाद् विशेषिततरत्वं सङ्घहे, यतस्तत्र तत्पदेन नैगमस्य ग्रहणम्, तन्निरूपितविषयता सामान्ये विशेषे च वर्तते, तस्याप्या विषयता सामान्यनिष्ठविषयता तन्निरूपकत्वं सङ्ग्रहे समस्तीति भवति नैगमाद् विशेषिततरत्वं सङ्ग्रहे, एवं नैगमाद् विशषिततरत्वं व्यवहारेऽपि, तत्र नैगमविष यताव्याप्यविशेषनिष्ठविषयताकत्वं समस्तीति, प्रकृते तु ऋजुसूत्रनयनिरूपितविषयताऽर्थपर्यायनिष्ठा, यतः क्रमिकक्षणमात्रस्थायी योऽर्थपर्यायस्तनिष्ठा ऋजुसूत्रनिरूपितविषयता, तद्वयाप्या शब्दनयनिरूपितव्यञ्जनपर्यायनिष्ठविषयता न भवति, अर्थपर्याय-व्यञ्जनपर्याययोरत्यन्तभिन्नत्वेन तन्निष्टविषयत्वयोः सामानाधिकरण्यस्यैवाभावेन व्याप्यव्यापकभावस्य सुतरामभावादिति ऋजुसूत्रविषयताव्याप्यविषयताकत्वाभावाच्छब्दनयस्य नैवर्जुसूत्रादिविशेषिततरत्वमित्यर्थः। प्रकारान्तरेण ऋजुसूत्राच्छन्दनयस्य विशेषिततरत्वसङ्गमन

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496