Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 357
________________ २८६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। " भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्। स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः ॥१॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" ॥२॥ ] इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्तौ प्रतिमायां तद्व्यवहारः कथम् ? अत आहबिम्बे च सा- स्थापना, उपचारतः- स्वात्मनि स्थापितस्य भावस्यालम्बनतया समापत्तिविषयीक्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः ॥ १०२॥ नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः परम्परया सम्बन्धस्तेन सम्बन्धेन “एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः। उक्तार्थसामनोपोलूलकं प्राचीनपद्यद्वयमुपदर्शयति-तच्चेति- उक्तार्थसङ्गमनं चेत्यर्थः। देवतोद्देशात् स्वात्मन्येव निजभावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात् स्थापनम् , इह प्रतिमायाम् , उच्चैः परम्परया, वचननीत्या तीर्थकरवचनोपदर्शितनीत्या, भवतीति शेषः ॥ १॥ यत् स्थाप्येन परमाया एव समरसापत्तेः परमं बीजमपीदं हन्त तत् एषेव मुख्येति विज्ञेयेति सम्बन्धः यत् यस्मात् कारणात्, स्थाप्येन जिनेन सह, परमाया उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्टं निमित्तमपि, इदं जिनवचनम् , तत् तस्मात् कारणात् , एषैव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः ॥ २ ॥ 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति-नन्वेवमिति । एवम् उक्तप्रकारेण । निश्चयतः निश्चयनयतः । तद्वयवहारः स्थापनाव्यवहारः। बिम्बे चेति-प्रतिमायां चेत्यर्थः। सेत्यस्य विवरणं-स्थापनेति । उपचारतः इत्यस्य विवरण- लक्षणयैवेति। तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति- स्वात्मनि स्थापितस्य भावस्यालम्बनतयेति-अस्य लक्षणयवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनभावस्य, आलम्बनतयेति- जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बद्धस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः । समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदजनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रानुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया ॥१.२॥ ___ त्र्युत्तरशततमपद्यमवतारयति- नन्वेवमिति । तावता यजमानगतादृष्टलक्षणप्रतिष्ठाफलोपपादनेन । चन्दकपूजकादीनां प्रतिमावन्दनकर्तृ-प्रतिमापूजनकर्तृप्रभृतीनाम् । का सिद्धिः ? न काचित् सिद्धिः । सा वन्दनक पूजकादीनामपीष्टसिद्धिः । हि यतः। प्रतिष्ठाहितः-प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पूजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शक्त्यादिशब्दवाच्यो वा, अतिशयः अप्रतिष्ठितप्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् खीकृतो भवेत् । “प्रतिष्ठितप्रतिमावन्दन पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन नत्यादीनां" इति पाठो युक्तः । इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव । ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशय प्रतिक्षिपति-न चेति । तदाहितं प्रतिष्ठाक्रियाजनितम् । तथा प्रतिष्ठितप्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् । निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्शे जाते ऽपि तद्वन्दनादिकर्तृणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः । किञ्च यजमानगतं यददृष्टं

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496