Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 383
________________ ३१२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। देहभेदाज्जीवभेदभ्रान्तिः । एकस्यैव स्वकल्पितगुरु-शास्त्रायुपबृंहितश्रवण-मननादिदाादात्मसाक्षात्कारे योगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति चेत् ? न-प्रतिकर्मव्यवस्थायाः संयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् , सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् , नहोदमंशावच्छिन्नचैतन्यं न वस्तु, नवा मिथ्यारूपस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति वाच्यम्, इदं रूप्यमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात् , न हि सत्ताकाले इव सत्ताविरहकालेऽप्यज्ञानं विरुद्धयते। न च 'इदं रूप्यं, नेदं रूप्यम्' इति ज्ञानयोर्मिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् , भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च रूप्यादिबाघस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेमिथ्यात्वासिद्धिरिति वाच्यम् , बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम् , न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च सुषुप्ति-प्रलयादौ जीव-ब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुकस्य पुनरावृत्त्यापत्तिरिति वाच्यम् , जीव ब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योकत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य दृगन्यत्वेन स्वानमोक्षवदृष्टिसृष्ट्यापत्तिः, मोक्षस्य ब्रह्मस्वरूपत्वेन हारभन्नत्वासिद्धेः। न च चैतन्य मात्ररूपा दृष्टिन सृष्टिः, किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् , तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम् , चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः, वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावेन भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति निरस्तम् स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः, अन्वय व्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम् , ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसष्टेदृष्टिसष्टित्वेऽपि घटादेदृष्टिसृष्टित्वोपपत्तेः । ननु ऐक्यप्रत्यभिज्ञाविरोधः, पूर्वकालप्रतीतस्येदानीम. भावात् , न चैषा भ्रान्तिः, दीपादौ परिणाम माण )भेदस्येवेह वाचकत्वाभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेत् । न- "नेह नाना०" [ ] इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधूते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकत्वातिरिक्तकालसत्त्वे बाधकम् , अतो भिन्नकालीनानामात्मभिन्नानां प्रत्यभिज्ञाभ्रान्तिः, आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः, एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् , पुरुषान्तरप्रतीतेन सदककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव, प्रतिभासस्य भेदात्, यथैकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञाभ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । ननु अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेत् ? न- स्वप्नाभेदभ्रमवद् दृष्टिसष्टिसिद्धसादृश्यादिसम्भवात् । न चैवमभेद एवोत्पद्यतामिति वाच्यम्, इष्टापत्तेः, रज्जुस दिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः, मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च सोऽयं देवदत्त इति दृष्टान्तेन तत् त्वमस्यादिवाक्ये जहदजहल्लक्षणयक्यपरत्वोक्त्ययोग इति वाच्यम्, यद्यपि धर्मवद् धर्थभेदोऽपि बाधित एवेति जहदजल्लक्षणाऽपि न युज्यते, तथाऽपि यदा धर्माभेदो वाधान्न गृहीतः किन्तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः । न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्, अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च "ध्रुया द्यौर्बुवा पृथिवी ध्रुवाः पर्वता इमे ध्रुवं विश्वमिदं जगद्" [ऋ० सं० ८. ८. ३१.] इत्यादिश्रुतिविरोधः, अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्यैव युक्तत्वात्, अन्यथा ध्रुवो राजेत्यादावगतेः, दृष्टिसृष्टौ च “एवमेवास्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्चरन्ति" [बृ. २. १. २०.] इति श्रुतिः । सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिसादयन्ती प्रमाणम् न च सुषुप्तौ प्राणादिपञ्चकस्य त्वात् किमर्थं पुनः सृष्टिरिति वाच्यम् , " न तु तद् द्वितीयमस्ति ततोऽन्यद् विभक्कं यत् पश्येत्” [बृहदारण्यकोपनिषद् धवं विश्वमिदं जगद्” । १० नाविच्छेदपरत्वस्येव युक्तत्वात, मानो व्यच्चरन्ति"

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496