Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 384
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। ३१३ सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्यायुधम् । ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम् , तस्मात् किमत्र हेयं किमुपादेयमिति चेत् ? क एवमाह वस्तुनि विकल्पो न । ४. ३. २३.] इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च "सुषुप्तौ हिता नाम नाड्यः" [ ] इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां “हिता नाम नाड्यो हृदयात् पुरीततमभि प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते" [ को. त. ४. १९. 1 इत्यादिना सुषुप्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात् , प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः । ननु " यत्रैष एतत्सुप्तोऽभूत् " [बृ० २१. १६.] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तत्कर्तृकैव प्राणादिसृष्टिने तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽन्यूर्णनाभादेस्तन्तुविस्फुलिङ्गादिजननोतिरत्रापि वाक्ये सर्वलोकदृष्टयुक्तिश्चालीकार्था स्यात् , नहि दृष्टिसृष्टिपक्षेऽग्न्यूर्णनाभादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वाऽस्तीति चेत् ? न- यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेयस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये केष तदाभूदित्यत्र क-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात् , यत्रेत्यनेन निर्देशे केति प्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् , ऊर्णनाभादेस्तन्त्वादिजन्योत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य, यदा यत् पश्यति तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्र शक्तिकत्वात् , उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावभिहितम् . वासिष्ठ वार्तिकामृतादावाकरे स्पष्टमेवोतं- यथा " अविद्यायोनयो भावाः सर्वेऽमी बुद्धदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानकजलधौ लयम् ॥१॥" [ ] इत्यादि, तस्माद् ब्रह्मातिरिक्तं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकत्वं सर्वस्येति सिद्धम् , "रज्जु-सर्पादिवद् विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः ॥१॥" [ ] इति। दृष्टिसृष्टिवादे वादान्तरतो विशेषमुपदर्शयति-अस्मॅिश्व पक्षे इति । "जीव एवेश्वरज्ञान" इत्यस्य स्थाने 'जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात् - तत्सहकाराजीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः । वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिक सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिक्तस्य सर्वस्य प्रातीति कसत्त्वमेवेत्याह-दृश्यं चेति । दृष्टिसृष्टिवादे यद्येक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह-देहभेदादिति- वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपत्वान्न जीवभेदसाधने प्रभुरित्यर्थः । अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदेव स मोक्षः सर्वजीवमोक्षात्मकः, न त्विदानी पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति - अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च, तदुपबृंहितस्तदुपष्टम्भेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदान्निदिध्यासनापरिग्रहः, तस्य दायाद्- भूयो भूयोऽभ्यासादात्मसाक्षाकारे-परब्रह्मात्मकस्वसाक्षात्कारे सति एकस्यैव जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान्न मोक्ष इत्यावेदितम् । नन्वेवं यद्येक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक-वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धयत इत्यत आह-शुकादीनामिति । अर्थवादः प्रशंसामात्रम् । तदेवं ब्रह्माद्वैतवादे वेदान्ते जीवेश्वरविभागव्यवस्था अवान्तरमतभेदनिबन्धना बहुधोपदर्शिता, वस्तुनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रनिबन्धना न प्रमाणवीथीमवतरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्गतोऽनिर्धारितस्वरूप एव, न चैतेषां परस्परविरुद्धप्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यात्रोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शङ्कते- नन्विति । तस्मात् प्रकारभेदकल्पनालक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयकपरस्परविरुद्धमतप्रामाण्याभावात् । अत्र दर्शितमतेषु । कि हेयं किं मतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् । उत्तरयति-क एवमाहेति - वस्तुनि विकल्पो न संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति। ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह-स्थाणुबैतिएकस्मिन्नपि वस्तुनि 'अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेदर्शनादित्यर्थः । ४०

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496