Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 428
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वात् , द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ] एतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थप्रमाणादिभेदं विना प्रायस्तस्य वैशेषिकदर्शनसमान. विषयत्वादिति दिक् ॥ ११८ ॥ - ननु सङ्ग्रह-व्यवहारयोरेव विषयविवेकेन नैगमस्यान्तर्भावे तस्य पार्थक्ये किं बीजम् ? अदर्शनेऽपि किञ्चित् कल्पयाम इति चेत् ? तर्हि दृष्टं स्वतन्त्रद्रव्य-पर्यायोभयविषयत्वमेव तथास्तु, तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाह स्वतन्त्रव्यक्ति-सामान्यग्रहायेष्टे तु नैगमे ।। औलूक्यसमयोत्पत्तिं ब्रूमहे तत एव हि ॥ ११९ ॥ नयामृत-स्वतन्त्रेति- स्पष्टार्थः । अत्र चार्थे प्रदर्शितन्यायेन द्रव्य-पर्यायरूपमुभयमपि परस्परविविक्तमेकत्र विद्यत इत्यभिप्राय:, " नैगमोऽशुद्धद्रव्यास्तिकप्रकृतिः" इति सम्मतिवृतिस्वरसोऽपीति ध्येयम् ॥ ११९ ॥ तथा घटत्वं सामान्यं पटत्वं सामान्य मठत्वं सामान्यमित्येवं सामान्येष्वप्यनुगतप्रत्ययानुरोधेन सामान्यत्वसामान्यस्यातिरिक्तस्याभ्युपगमः स्यात् , एवं तत्रापीत्यनवस्थानं स्यात्, विशेषेऽपि चायं विशेष एतस्माद् विशेषाद् भिन्न इति व्यावृत्तिप्रत्ययानुरोधेन विशेषेऽप्यतिरिक्तविशेषस्तत्राप्यतिरिक्तविशेष इत्यनवस्थानं प्रसज्येतेत्यतो वस्तुन एव स्वतः सामान्यविशेषात्मकत्वमभ्युपेयमित्यर्थः, उक्तार्थे श्रीहेमचन्द्रसूरिवरवचनसंवादमाह- तदिदमुक्तमिति । स्वत इति- स्वत एवानुवृत्ति व्यावृत्तिभाजः, अनुगतप्रतीतिव्यावृत्तिप्रत्यययोर्विषयत्वाज्जनकत्वाच सामान्यविशेषात्मका घट-पटादययो भावा भावान्तरेण- आश्रयव्यतिरिकेन सामान्येन विशेषेण च नेयरूपा:- ज्ञाप्यरूपा अनुगत-व्यावृत्तिप्रतीतिविषया न, एवं च परात्मतत्त्वाद्- वस्त्वात्मकाश्रयव्यतिरिक्तसामान्य-विशेषात्मकतत्त्वात् , कथम्भूतात् ? अतथात्मतत्त्वात्- तथाऽऽत्मतत्त्वं न भवतीत्यतथात्मतत्त्वं तस्मात् , वस्तुव्यतिरिक्तसामान्य-विशेषतत्त्वं न भवत्येवेत्यतः शशशङ्गकल्पात् , द्वयम्-अनुवृत्तिव्यावृत्तिबुद्धिद्वयम् , वदन्तः- कथयन्तो वैशेषिकाः, अकुशलाः- तत्त्वनिरूपणासमर्थाः स्खलन्ति- वादरणभूमौ पराजयलक्षणां स्खलनां प्राप्नुवन्तीत्यर्थः, एतेन वैशेषिकदर्शनखण्डनेन, अस्य व्याख्यातमित्यनेनान्वयः। व्याख्यातं खण्डिततया व्याख्यानं खण्डितं भवतीति । एकमतखण्डने तदन्यमतस्य खण्डनं कथमित्यत आह- पदार्थप्रमाणादिभेदं विनेति- पदार्थप्रमाणादिसङ्ख्याभेदं विनेत्यर्थः । वैशेषिकमते द्रव्यादयः सप्त पदार्थाः, प्रत्यक्षानुमाने द्वे एव प्रमाणे, नैयायिकदर्शने प्रमाण-प्रमेयादयः, पदार्थाः षोडश, प्रमाणानि प्रत्यक्षा-ऽनुमानोपमान-शब्दाख्यानि चत्वारीत्येवं पदार्थप्रमाणसङ्खथाभेदः। न्यायभेदे समवायस्य प्रत्यक्षं भवति, वैशेषिकमते यावत्सम्बन्धिप्रत्यक्षे सत्येव सम्बन्धप्रत्यक्षमिति नियमात् सम्बन्धिनां परमाण्वादीनां प्रत्यक्षाभावात् समवायो न प्रत्यक्ष इत्यपि विशेषोऽस्तीत्यत उक्तम्-प्राय इति । तस्य नैयायिकदर्शनस्य ॥ ११८॥ एकोनविंशत्युत्तरशततमपद्यमवतारयति-नन्वित्यादिना, विषयविवेकेन सामान्यविषयकत्वात् सामान्यविषयकनगमस्य समहेऽन्तर्भावः, विशेषविषयकत्वाद् विशेषविषयकनगमस्य व्यवहारेऽन्तर्भाव इत्येवं विषयविवेकेन । तस्य नैगमस्य । पार्थक्ये सहप्रह-व्यवहाराभ्यां भिन्नत्वे, अन्ये देवसूरिप्रभृतयः सङ्ग्रह व्यवहाराभ्यां नेगमस्य पार्थक्यमामनन्तीत्यत्र किं बीजमित्यर्थः । शहते- अर्शनेऽपीति-नेगमपार्थक्यबीजस्यादर्शनेऽपि. किश्चिन्नैगमपार्थक्यबीजं कल्पयांम इत्यर्थः । समाधत्ते-तहाँति- अदृष्टस्य कस्यचिन्नैगमपार्थक्यबीजस्य कल्पनापेक्षया लाघवान्नैगमे दृष्टमेव सामान्यविशेषोभयविषयकत्वं

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496