Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 470
________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समबहतो नयोपदेशः। मात्रकर्तव्यत्वेन विहितानि तत्परित्यागस्यागस्याशास्त्रीयत्वात् , सङ्कोचे मानाभावात् , निषिद्धानि काम्यानि च बन्धहेतुत्वात् , धनमूलानि च धनत्यागादेव त्यज्यन्ते, इत्येतावदेव सन्न्यासपदार्थत्वात् , तथा, च गीतावचनम्" काम्यानां कर्मणां न्यास, संन्यासं कवयो विदुः। नियतस्य तु संन्यासः, कर्मणो नोपपद्यते ॥ १ ॥ मोहात् तस्य परित्यागस्तामसः परिकीर्तितः" [ ] ॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः-" विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु तीर्वा विद्ययाऽमृतमश्नुते " [ अत्राविद्या कर्म, विद्या च तत्वज्ञानं तुल्यवद् यो वेद प्राप्नोतीति पूर्वार्द्धार्थः, वेदेति प्रयोगात् " विदलु लाभे" इति धातोः छान्दसत्वेन भास्करीयैर्दर्शितत्वात् , “ तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [ ] इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात् तत्त्वज्ञानस्याप्यपवर्गसामग्री निवेशननियमपरम्, न तु वाक्यान्तरावधृतकारणताककर्मव्युदा. सनपरम् , समुच्चये चान्यान्यपि भूयांसि वचनानि सन्ति, तथा च गीतावचनम्संस्कारिणः कर्तव्यत्वेन - नित्यकर्मकर्तव्यत्वेन, विहितानि विध्यात्मकश्रुतिवचनप्राप्तानि । तत्परित्यागस्य तेषां कर्मणां संन्यासिनां परित्यागस्य । अशास्त्रीयत्वात् शास्त्रप्रमाणकत्वाभावात् । ननु मोक्षाश्रमिणोऽपि कर्मापरित्यागित्वे कर्मसंन्यासाभावात् संन्यासित्वमेव न भवेत् , अखिलकर्मपरित्यागस्यैव संन्यासपदार्थत्वादित्याशङ्कां मनसि कृत्वा तत्प्रतिक्षेपायाह-निषिद्धानीति-निषिद्धानि, काम्यानि च बन्धहेतुत्वात् त्यज्यन्ते इत्यन्वयः। इत्येतावदेव निषिद्धकाम-धनाधीनकर्मणां त्यागमात्रस्यैव । काम्यकर्मन्यासस्य संन्यासपदार्थत्वे भगवद्गीतावचनं प्रमाणयति-तथा च गीतावचनमिति । कवयो विद्वांसः। विदुः जानन्ति । नियतस्य तु अवश्यकर्तव्यस्य पुनः, अवश्यकर्तव्यं च नित्यं नैमित्तिकं च, तस्य कर्मणः । संन्यासः त्यागो, नोपपद्यते न युज्यत इत्यर्थः। मोहात् सर्वकर्मन्यासः संन्यास इति भ्रमात् । तस्य नियतकर्मणः । श्रुतिरपि साक्षात् कर्म-ज्ञानसमुच्चयं प्रतिपादयन्ती तत्र प्रमाणमित्याह- साक्षादिति । तां श्रुतिमुल्लिखति-विद्यां चेति । अस्या अर्थमुपदर्शयति- अत्रेति-- अस्मिन् श्रुतिवाक्य इत्यर्थः। अविद्या कर्मेतिअविद्यापदवाच्यं कर्मेत्यर्थः । विद्या च तत्त्वज्ञानमिति - विद्यापदवाच्यं तत्त्वज्ञानमित्यर्थः । वेदत्यस्य प्राप्नोतीत्यर्थः । कथमित्यपेक्षायामाह- वेदेति प्रयोगादिति । नन्वेवं तत्त्वज्ञानमात्रस्यैव मोक्षजनकत्वप्रतिपादिकाऽपि श्रुतिरस्ति तस्याः का गतिरित्यत आह-तमवेति-आत्मानमेवेत्यर्थः। विदित्वा ज्ञात्वा। अतिमृत्यु मोक्षम् । एति प्राप्नोति । अन्यः तत्त्वज्ञानाद् भिन्नः। अयनाय पुनः संसारेऽनागमनाय, मोक्षप्राप्तये इति यावत् । पन्थाः मार्गः, उपाय इति यावत् । न विद्यते नैवास्ति । इति वाक्यं तु एवंस्वरूपं श्रुतिवचनं पुन:, अस्य नियमपरमित्यनेनान्वयः। एवकारस्य तमेवेत्यत्र स्थितस्यैवकारस्य । विदित्वेत्यनन्तरं योजनात् तथा योजने तं विदित्वैवेत्येवंस्वरूपं लभ्यते, यथा दण्डे सत्येव घट इति वाक्याद् दण्डमात्रेण घट इति बोधो न जायते किन्तु दण्डोऽपि घटकारणमिति बोध उपजायते. तेन घटजनकसामग्यां दण्डोऽपि निविशते इति लभ्यते, तथा तं विदित्ववेत्यादिवाक्यादात्मानं ज्ञात्वैव मोक्षमासादयति न त्वात्मानमज्ञास्वेति बोध उपजायते, तेन अपवर्गजनकसामग्यामवश्यं तत्त्वज्ञानं निविशतीति नियमपरमुक्तवाक्यमित्यर्थः। तर्हि किं परं नोक्तवाक्यमित्यपेक्षायामाह- न रिवति । वाक्यान्तरेति-विद्यां चाविद्यां चेत्यादिवाक्येत्यर्थः, वाक्यान्तरेणावधृता- निर्णीता, मोक्षं प्रति कारणता यस्य तद्वाक्यान्तरावधृतकारणताकमेवम्भूतस्य कर्मणो व्युदसनपरंनिरसनतात्पर्यकं नोक्तवाक्यमित्यर्थः, “व्युदासनपरं" इत्यस्य स्थाने "व्युदसनपरं" इति पाठो युक्तः । समुच्चये तत्त्वज्ञानकर्मसमुच्चये। तथा च समुच्चयप्रतिपादकं च, तमभ्यर्य ईश्वरम् आत्मानं वा, तदर्चाऽत्र सम्यक् तज्ज्ञानरूपैव । विष्णुपुराणवचनमपि समुच्चये प्रमाणमित्याह-विष्णुपुराणेऽप्युक्तमिति । तस्मात् मोक्षस्य परमपुरुषार्थत्वात् ।

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496