Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनहतो नयोपदेशः । किञ्च, कर्मकारणताग्रहानुपजीवनेन लौकिकान्वय-व्यतिरेकावधृतमिथ्याज्ञाननिवर्त[न]भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्" [
"तरति शोकमात्मवित्" [छां० ७. १. ३.] "ब्रह्मविदाप्नोति परं" [तैत्ति० २. १. १+भस्मजा २. ७.] " ब्रह्मविद् ब्रह्मैव भवति" [ ___] इत्यादि श्रुति स्मृतिशतेन तत्त्वज्ञानस्येष्टतया ग्रहणात् तदेव मोक्षसाधनम् , कर्माणि तु तत्रैवा. न्यथासिद्धानीत्युक्तम् , यथा च न तत्रापि व्यापारस्तथोक्तमेव, अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्मणां नि:श्रेसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पर्यात् , श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् , तावतैव श्रुतेः 'कर्मप्रवृत्तिपरतानिर्वाहाद्' इत्याहुः। अत्र वयं वदामः- मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनध्वंस एव, न तु दुःखध्वंसः, उत्पन्ना-ऽनुत्पन्नविवेकेन तद्ध्वंसस्यासाध्यत्वात्, तत्र च ज्ञान-कर्मणोजात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवे.
सिद्धानीत्युपपादकं प्रकारान्तरं दर्शयति-किश्चेति । कर्मेति- मोक्ष प्रति कर्मणां कारणत्वं नोपजीवति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वमिति कर्मकारणतानुपजीवनेन, अस्य मोक्षसाधनत्वस्येत्यनेनान्वयः । लौकिकेति- लौकिकौ-लौकिकप्रत्यक्षादिप्रमाणसिद्धौ, यावन्वय-व्यतिरेको ताभ्यामवधृतं- निश्चितं यत् तत्त्वज्ञानेन मिथ्याज्ञानस्य निवर्तनम् , यथा शुक्तित्वरूपशुक्तितत्त्वज्ञानेन शुक्ती रजतत्वज्ञानलक्षणमिथ्याज्ञानस्य निवर्तनम् , तद्भावसम्भावितस्य मोक्षसाधनत्वस्य, तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिरन्यत्र दृष्टेति प्रकृतेऽप्यात्मतत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिस्ततश्च मोक्ष: सम्भवतीत्येवं सम्भावितस्य मिथ्याज्ञाननिवृत्तिद्वारा तत्त्वज्ञाने मोक्षसाधनत्वस्येत्यर्थः । इत्थं सम्भावनात्मकं तत्वज्ञाने इष्टसाधनत्वस्य ग्रहणमुपदर्य स्पष्टमपि तङ्ग्रहणं श्रुति-स्मृतिप्रभवमुपदर्शयति-ज्ञानादेवेति । "तत्त्वज्ञानस्येष्टतया" इत्यस्य स्थाने "तत्त्वज्ञाने स्पष्टतया" इति पाठो युक्तः, मोक्षसाधनत्वस्य तत्त्वज्ञाने स्पष्टतया ग्रहणादित्येवमन्वयो बोध्यः, अर्थस्तु स्पष्टः । तदेव मोक्षसाधनं तत्त्वज्ञानमेव मोक्षसाधनम्, एषकारेण कर्मणां मोक्षसाधनत्वस्य व्यवच्छेदः । तत्रैव तत्त्वज्ञान एव । तत्रापि तत्त्वज्ञानेऽपि । यथा च येन प्रकारेण । न व्यापारः कर्मणो न व्यापारः । तथोकमेव तथापूर्वमभिहितमेव । उतार्थे संप्रदायसंवादमुपदर्शयति-अत एवेति-अन्यथासिद्धत्वादेवेत्यर्थः। अर्थावबोधपर्यन्तता अर्थावबोधमात्रफलकता। अध्ययनविधेः स्वाध्यायोऽध्येतव्य इति विधेः । न त्विति- अध्ययनविधितोऽर्थान्वयबोधस्तेन क्रत्वनुष्ठानं तेन चादृष्टद्वारा स्वर्गादिफलमित्येवं स्वर्गादिफलकत्वं नाध्ययनविधेरन्यथासिद्धत्वात् । इति एवं स्वरूपः । सम्प्रदायः सङ्गच्छते इत्यर्थः । "न च तत्त्वज्ञानस्य" इत्यस्य स्थाने " न च श्रुतिस्तत्त्वज्ञानस्येव कर्मणामपि मोक्षजनकत्वं बोधयतीति वाच्यम. श्रुतेः" इति पाठो भवितुमर्हति, यथा श्रुतिस्तत्त्वज्ञानस्य मोक्षजनकत्वप्रतिपादिका समस्ति तथा कर्मणामपि मोक्षजनकत्वप्रतिपादिका श्रुतिः समस्ति, एवं च श्रुतिस्तत्त्वज्ञानस्य यथा मोक्षजनकत्वं बोधयति तथा कर्मणामपि मोक्षजनकत्वं बोधयतीति श्रुतिसिद्धं कर्मणां मोक्षजनकत्वमिति न च वाच्यम् , कर्मणां मोक्षजनकत्वप्रतिपादकतयाऽभिमतायाः श्रुतर्मोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वबोधन एव तात्पर्यात् , एवकारण अनन्यथासिद्धत्वे सति निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वलक्षणनिःश्रेयसजनकत्वबोधने तात्पर्यस्य व्यवच्छेदः, अनन्यथासिद्धत्वोक्तस्वरूपकारणत्वावबोधने कुतो न तात्पर्यमित्यपेक्षायामाह-श्रुत्यन्तरसिद्ध इति । तावतैव कर्मणामुक्तस्वरूपानुकूलत्वबोधनेनैव । ज्ञान-कर्मणोईयोरेव समकक्षतया मोक्षजनकत्वस्वीकर्तणां जनानां मतमुपदर्शयति- अत्रेति- निरुक्तविचार इत्यर्थः । वयं स्याद्वादिनः । वदामः कथयामः । कथं दुःखध्वंसो न मोक्षस्तस्यापि पुरुषार्थत्वादित्याकालायामाहउत्पन्नेति- उत्पन्नदःखध्वंसो मोक्षोऽनुत्पन्नदुःखध्वंसो वा, तत्र दुःखस्य साक्षात्कारनियमादुत्पन्नदुःखस्यस्वोत्तरोत्पन्नस्वसाक्षात्कारेणैव निवृत्तेस्तदात्मकस्य मोक्षस्य पुरुषप्रयत्नासाध्यत्वान्न पुरुषार्थत्वम्, प्रतियोगितासम्बन्धेन ध्वंसं प्रति तदात्मसम्बन्धेन प्रतियोगिनोऽपि कारणत्वमित्यनुत्पन्नदुःखरूपप्रतियोगिनः पूर्वमभावेन तद्रूपकारणाभावादनुत्पन्न

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496