Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
त्येकतरपक्षपातो न श्रेयान् ज्ञाने केवलज्ञानस्वरूपस्य कर्मणि च यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति, एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्मसहिकारित्वं मिथ्याज्ञानोन्मूलने, कर्मविनाकृतस्यैव तस्य दिग्मोहादौ हेतुत्वावधारणादिति निरस्तम्, मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मिथ्याज्ञानप्रागभावाऽसहवृत्तिमिध्याज्ञानध्वंसे च हेतुताया लोकप्रमाणाविषयत्वेन ज्ञान- कर्मणोर्द्वयोरेव कल्पनौचित्यात् वस्तुत अर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपि न हेतुता, किन्तु सामान्यावच्छिन्नध्वंसनये कर्मत्वावच्छिन्नध्वंसे तत्समयावत्कर्मक्ष्य समनियतक्षायिक सुखत्वावच्छिन्ने वेति न
roa
दुःखध्वंसः सम्भवत्येव नेत्यसम्भवितस्य तस्य सुतरामेवासाध्यत्वादतः पुरुषार्थत्वाभावान्न दुःखध्वंसो मोक्ष इत्यर्थः । तत्र च दुःखसाधनध्वंसरूपमोक्षे च । वैजात्येनेत्यस्य हेतुत्वमित्यनेनान्वयः, विजातीयज्ञानत्वेन विजातीयकर्मत्वेन कारणत्वम् । वा अथव' । मुमुक्षविहतत्वादिना मुमुक्षावहितज्ञानत्वेन मुमुक्षविहितकर्मत्वेन कारणत्वम्, तुल्यमेव समानमेव । इति एतस्मात् कारणात् । एकतर पक्षपातः ज्ञानमेव कारणं न कर्मेति कर्मैव कारणं न ज्ञानमित्येवमेकतरपक्षपातः । न श्रेयान् नातीवरमणीयः । ज्ञान इति - क्षायिकस्थले ज्ञाने केवलज्ञानत्वरूपस्य वैजात्यस्य कर्मणि यथाख्यातचारित्रस्वरूपस्य वैजात्यस्य च कल्पनायाः, क्षायोपशमिकस्थले तु तदनुकूलतामात्रस्य मोक्षानुकूलतामात्रस्य द्वयोः ज्ञानकर्मणोः कल्पनायास्तुल्ययोगक्षमत्वादित्यन्वयः, अर्थस्तु व्यक्तः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । कारणोच्छेदक्रमेणेति- ''दुःख-जन्म-प्रवृत्ति दोष- मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायान्मोक्षः " इति गौतमसूत्रम्, तत्र मिथ्याज्ञानं रागद्वषलक्षणदोषस्य कारणमिति मिथ्याज्ञानरूपकारणोच्छेदाद् दोषरूपकार्यस्योच्छेदः, रागद्वेषलक्षणदोषश्च प्रवृत्तेः कारणमिति दोषरूपकारणोच्छेदात् प्रवृत्तिरूपकार्यस्योच्छेदः, प्रवृत्तिश्व विहितनिषिद्धकर्मविषयिणी अदृष्टद्वारा जन्मनः कारणमिति प्रवृत्तिरूपकारणोच्छेदाज्जन्मलक्षणकार्यस्योच्छेदः, जन्म च दुःखस्य कारणमिति जन्मलक्षण कारणोच्छेदाद् दुःखध्वंसो भवति, स एव मोक्ष इत्येवं कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरित्यर्थः । इति एतस्मात् कारणात् । ज्ञानं कर्म सहकारित्वं मिथ्याज्ञानोन्मूलने ” इत्यस्य स्थाने " ज्ञाने कर्म सहकारित्वं न ज्ञानोन्मूलने " इति पाठो युक्तः । कथं न ज्ञाने कर्मसहकारित्वमित्यपेक्षायामाह - कर्म विनाकृतस्यैवेति-- कर्म र द्वितस्यैवेत्यर्थः । तस्य ज्ञानस्य । हेतुत्वावधारणात् निवृत्तिहेतुत्वनिर्णयात् । एतेनेत्यदिष्टमेव निरासहेतुं प्रकटयति- मिथ्याज्ञाननाशेऽपीति । मिथ्याज्ञानप्रागभावासहवृत्तीति- यन्मिथ्याज्ञानध्वंसानन्तरं मिथ्याज्ञानं तत् पुरुषस्य न भविष्यति, स एव मिथ्याज्ञानध्वंसः स्वसमानाधिकरणमिथ्याज्ञानप्रागभावासह वृत्तिः, स्वसमानाधिकरणत्वं च मिथ्याज्ञानप्रागभावविशेषणमवश्यमुपादेयम्, अन्यथेदानीं मुक्तस्य कस्यचित् पुंसो दुःखध्वंसोऽपि बद्धपुरुषीयदुःखप्रागभावसमानकालीन एवेति दुःखप्रागभावासह वृत्तित्वेन तच्चरमदुःखध्वंसस्यापि मुक्तित्वं न स्यादिति बोध्यम् । हेतुतायाः तत्त्वज्ञानस्य हेतुतायाः । लोकप्रमाणाविषयत्वेनेति - नहि लौकिकप्रमाणानि प्रत्यक्षानुमानादीनि चरमदुःखध्वंसं प्रति तत्त्वज्ञानं कारणमित्येवं विषयीकुर्वन्तीत्यतश्चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणताया लोकप्रमाणाविषयत्वेनेत्यर्थः तथा चालौकिकागमप्रमाणेन तन्मूलकसामान्यतो दृष्टानुमानेन च चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणत्वं कल्पनीयमिति तदलौकिकप्रमाणस्य ज्ञान - कर्मणोर्द्वयोरपि चरमदुःखध्वंसं प्रति कारणत्वे प्रवृत्तेरिति द्वयोरपि चरमदुःखध्वंसं प्रति हेतुत्वकल्पनमुचितमित्यर्थः । किञ्च, स्वसामानाधिकरण्य मिथ्याज्ञान प्रागभावासद्वृत्तित्व- मिथ्याज्ञानध्वंसत्वरूपविभिन्नसामग्री प्रयोज्याने कधर्म घटितत्वेन स्वसमानाधिकरण दुःखप्रागभावासह वृत्तिदुःखध्वसत्वस्यानेकसामग्री नियम्यत्व लक्षणार्थ समाजसिद्धत्वान्न किञ्चिन्निरूपित कार्यतावच्छेदकत्वमिति न तदवच्छिन्ने तत्त्वज्ञानस्य हेतुता सम्भवतीत्याह- वस्तुत इति । तद्रूपावच्छिन्नेति - स्वसमानाधिकरणदुःखप्रागभावासदवृत्तिदुःखध्वंसत्वाच्छिन्नेऽपि । न हेतुता न तत्त्वज्ञानस्य कारणता । तर्हि कस्मिन् कार्ये तत्त्वज्ञानस्य कारणतेति पृच्छति - किन्त्विति । उत्तरयति - सामान्यावच्छिन्नध्वंसनय इतिसामान्यधर्मावच्छिन्न प्रतियोगिताकध्वसंस्वीकारपक्षे इत्यर्थः, घटवत्ताबुद्धिं प्रति घटाभाववत्ता निश्चयस्य प्रतिबन्धकत्वम्, तत्र यदि घटत्वावच्छिन्नप्रकार तानिरूपित भूतलत्वाद्यवच्छिन्न विशेष्यताक बुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटनिष्ठप्रतियोगिताकात्य

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496