Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
प्रधानग्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एव ॥ ११ ॥ १२ ॥ दृष्टान्तौ चात्र पवन्धौ, तयोरन्यतरस्याकिञ्चित्करत्वेन संयोगपक्ष एव श्रेयान् , न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्रमेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कगीयम् , कुर्वद्रूपलक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालीनज्ञानक्षणस्यापि मुक्तिहेतुत्वात् । पुञ्जात् पुञ्जोत्पत्तिपक्षे बीजपाथःपवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद् विशेष इत्यप्यसाम्प्रतम् , ज्ञानादि. संवलितमुक्तिक्षणे संवलितक्षणस्यैव हेतुत्वात् तच्चातव्यावृत्त्या शक्तिविशेषा दिना वेत्यन्यदेतत् , कथं तर्हि " सद्दुज्जुसुआणं पुण निव्वाणं संजमो चेव" [
] इति नियुक्तिवचनश्रद्धानवतां तेषां कुर्वद्रूपक्षणावगाहित्वात् तत्र चैकान्तस्यानुपदमेव निरस्तत्वादित्याशङ्कनीयम् , एकैकस्य शतभेदत्वेना.
श्वरणस्य प्राधान्येऽन्धो दृष्टान्त इत्याह- दृष्टान्तौ चात्र पङ्ग्वन्धाविति । ज्ञानवानपि पङ्गुर्गन्तव्यग्राममार्ग पश्यन्नप्येको गन्तव्यग्राम नासदयति, क्रियावानपि अन्धो गन्तव्यग्राममार्गादर्शनादभीष्टं प्रामं न शक्नोति प्राप्तुं किन्तु मिलितो तावभीष्टदेशं प्राप्नुत एवेत्येवं संयुक्त ज्ञान चरणे मोक्षं जनयत इति समुच्चयवाद एवादरणीय इत्याह- तयोरिति - पवन्धयोरित्यर्थः । न चेत्यस्य शङ्कनीयमित्यनेनान्वयः । कुर्वद्रपत्वनय इति- अङ्कुरादिकं प्रति बीजादीनां बीजत्वादिना न कारणत्वं किन्त्वङ्करकुर्वद्रूपत्वेन बीजादीनामङ्करादिकं प्रति कारणत्वम् , धूमकुर्वदूपत्वने वयादीनां धूमं प्रति कारणत्वमित्येवं तत् तत् कार्य प्रति तत्तत्कार्यकुर्वद्रूपत्वेन तत्तत्कार्यकारणानां कारणत्वमित्यभ्युपगन्तृनय इत्यर्थः । निषेधे हेतुमाह- कुर्वद्रपक्षणस्येति । तत्कालीनेति- शैलेश्यन्त्यक्षणभाविचारित्रकालीनेत्यर्थः। चारित्रस्य प्रकारान्तरेण ज्ञानाद् विशेषस्योपदर्शनपुरस्सरमयुक्तत्वमावेदयति-पुञ्जात् पुओत्पत्तिपक्ष इति - पूर्वक्षणवर्तिरूप-रस गन्ध-स्पर्शाणुपुञ्जादुत्तरक्षणे रूप-रस-गन्ध-स्पर्शाणुपुञ्जमुत्पद्यते. तत्र पूर्वक्षणवर्तिरूपाणोरुत्तरक्षणवर्तिरूपाणुं प्रत्युपादानविधया कारणत्वम्, रसावा. दीनां तत्र सहकारिविधया कारणत्वम् , एवं पूर्ववर्तिरसाद्यनामुत्तरक्षणवर्तिरसाधणून् प्रत्युपादानविधया कारणत्वं रूपादीनां च तत्र सहकारिविधया कारणत्वमित्यभ्युपगन्तृमते इत्यर्थः । बीजेति- शाल्यकुरान् प्रति शालिबीजादय उपादानविधया कारणं पाथः-पवनादयश्च तत्र सहकारिविधया कारणम् , एवं पाथः-पवनादीन् प्रति पाथ.पवनादय उपादानविधया कारणं बीजादयश्च सहकारिविधया निमित्तत्वेन कारणमित्येवं बीज-पाथः-पवनादीनामे कत्रोपादानत्वेनान्यत्र च निमित्तत्वेन कारणत्वमिति बोध्यम् । इति कार्यविशेषापेक्षयोपादानत्व-निमित्तत्वव्यवस्थितौ । विशेषः निमित्तत्वेन मोक्षं प्रति कारणात् तत्त्वज्ञानाचारित्रक्षणस्य वैलक्षण्यम् । असाम्प्रतम् अयुक्तम् । तत्र हेतुमाह- ज्ञानादीति- मुक्तिक्षणे ज्ञानादिकमपि विद्यत इति पुञ्जात् पुञ्जोत्पत्तिपक्षे ज्ञानादिसंवलितमुक्तिक्षणात्मकपुञ्ज ज्ञान-दर्शन-चारित्रपुञ्जस्यत्र कारणत्वात् तत्रोक्तविशेषस्य विनिगन्तुमशक्यत्वाच्चारित्रस्यैव हेतुत्वमित्यतन्नोपपद्यत इत्यर्थः । ननु ज्ञान-चारित्रादिसमुच्चयवृत्त्येकधर्माभावात् कथं संवलितस्यैव कारणत्वमित्यत आह- तच्चेति - संवलितक्षणस्य कारणत्वं चेत्यर्थः । अतद्वयावृत्या ज्ञानभिन्नत्वे सति दर्शनभिन्नत्वे सति चारित्रभिन्नो यस्तद्भिन्नत्वेन । शक्तिविशेषादिना ज्ञान-दर्शन-चारित्रेषु संवलितेष्वेव मोक्षानुकूलैकशक्तिविशेषः कल्प्यते, धर्मान्तरमेव वा किञ्चित् कल्प्यते, तद्रूपेण एवं चातव्य वृत्तेरन्यतमत्वस्वरूपायाः प्रत्येकमपि ज्ञानादौ सत्त्वेनैकैकस्मादपि ज्ञानादितो न मुक्तिप्रसङ्गः । अन्यदेतत् वादान्तरम् । “कथं तर्हि " इत्यस्य स्थाने " न चैवं कथं तर्हि " इति पाठो युक्तः, "नियुक्तिवचनश्रद्धावतां" इत्यस्य स्थाने च " नियुक्तिवचनं, तच्छ्रद्धानवतां" इति पाठो युक्तः। न चेत्यस्याशङ्कनीयमित्यनेनान्वयः। कथं तीत्यस्य नियुक्तिवचनमित्यनेनान्वयः । सददुज्ज. इति-" शब्दर्जुसूत्राणां पुनः निर्वाणं संघमादेव" इति संस्कृतम् , एतद्वचनं पुञ्जातू पुजोत्पत्तिरित्यभ्युपगन्तृऋजुसूत्रनये मुक्ति प्रत्येकान्तेन संयमस्यैव कारणत्वमवबोधयति, तत् कथं सङ्गतमित्याक्षेपः। तत्र हेतुमाह- तच्छद्धानवतामिति-- उक्तनियुक्तिवचन श्रद्धानवतामित्यर्थः । तेषाम् ऋजुसूत्रनयानुसारिणाम् । कुर्वदूक्षणावगाहित्वात् उत्तरोत्तरक्षणं प्रति पूर्वपूक्षिणस्य तत्तत्क्षण कुर्वपक्षणत्वत्वेन कारणत्वस्याभ्युपगन्तृत्वात् । तत्र च निरुक्तपक्षे च । एकान्तस्य मुक्ति प्रति संयमस्यैव कारणत्वमित्येकान्तस्य । अनुपदमेव अनन्तरमेव । निरस्तत्वात् 'ज्ञानादि

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496