Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 486
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो गयोपदेशः। क्षेपककारणत्वरूपस्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः, अत एव शैलेश्यन्तक्षणभाविधर्महेतुत्वमिति विशुद्धैवम्भूताभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम् । यत् तु मिथ्याहशो मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेव मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मनःप्रणिधानरूपायाः क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एव कर्मनिरपेक्षं तत्त्वज्ञानं हेतुरिति चेत् ? तीदृष्टपरिकल्पनमेतत् मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकताया लोकेऽदृष्टत्वात् , अदृष्टकल्पने वाऽऽगमानुसारेण ज्ञानवत् कर्मगोऽपि मलक्षयद्वारा मुक्तिहेतुत्वकल्पनमेव ज्यायः, तथा चाभ्यधादासुरोऽपि वासिष्ठे" तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् ॥१॥" ] इत्यादि । किश्च, विहितत्वेन पुण्यपापक्षयान्यतरहेतुत्वव्याप्तेस्तत्त्वज्ञानस्य कर्मतुल्यत्वम्, न च चिकित्सा. दावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्ती व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञान-कर्मणो. मुक्को तुल्यवदेव हेतुतया समुच्चयपक्ष एव अनाविल इति सिद्धम् ॥ * ॥ संवलितमुक्तिक्षणे' इत्यादिना खण्डितत्वात् । निरासे हेतुमाह- एकैकस्येति - ऋजुसूत्राधेकैकनयस्येत्यर्थः । तदेकान्ताभिधानेति- सदुज्जुसुआणमित्येकान्तसंयमकारणत्वप्रतिपादकवचनेत्यर्थः । अत एवेत्यस्य समर्थितमित्यनेनान्वयः, शैलेश्यन्तक्षणभावी यो धर्मस्तस्यैव मुक्तिं प्रति कारणत्वमित्यर्थः । अस्माभिः यशोविजयोपाध्यायः। तत्र तत्र स्वनिर्मितानेकप्रन्थेषु । मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेवक मोक्षजनकभित्येकान्तवादिनां केषाञ्चिन्मतमुपन्यस्य दूषयतिये स्विति । " यत् तु" इत्यस्य स्थाने “ये तु" इति पाठो युक्तः, अस्य मन्यन्त इत्यनेनान्वयः । भवतु मिथ्याज्ञानोन्मूलनद्वारा तत्वज्ञानं मोक्षहेतुः किन्तु मिथ्याज्ञानोन्मूलने यथा तत्त्वज्ञानं हेतुस्तथा तत्तन्मनःप्रणिधानरूपा क्रियाऽपि हेतुरिति तत्तन्मनःप्रणिधानक्रियाऽपि मिथ्याज्ञानोन्मूलनद्वारा मोक्षहेतुर्भवदिति तदनालोचनं तेषामज्ञानविज़म्भितमेवेति तन्मतदूषणमुपदर्शयति-ते इति- अस्य कथं न पश्यन्तीत्यनेनान्वयः । ननु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरित्येव नेष्यते, किन्तु मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरिति तत्र नोक्तोष इति पराकूत. मुद्भाव्य दूषयति- मिथ्याज्ञानवासनोन्मूलनत एवेति मिथ्याज्ञानजन्यवासनाया भावनाख्यसंस्काररूपायास्तत्त्वज्ञाना. जन्यत्वाद् भावनात्वावच्छिन्नप्रतियोगिताकवंसत्वावच्छिनं प्रति स्मृतित्वावच्छिन्नस्यैव कारणत्वस्व दर्शनबलाद् व्यवस्थितेः, तत्त्वज्ञानस्य तु मिथ्याज्ञान जन्यवासनाध्वंसजनकत्वं लोके न दृष्टमिति तथाकल्पनाऽदृष्ट चरी प्रामाणिकैरुपेक्ष्यवेति दूषणं दर्शयति- तहीति । एतत् मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्त्वज्ञानं मोक्षहेतुरिति कल्पनम् । तत्कल्पन. स्य दृष्टपरिकल्पनत्वे हेतुमाह - मिथ्याज्ञानेति । स्मृत्ये कनाश्यत्वात् स्मृतिमात्रजन्यनाशप्रतियोगित्वात् । तन्नाशकताया. मिथ्याज्ञानजन्यवासनानाशजनकतायाः। ननु लोकेऽदृष्टमपि शास्त्रानुसारेग तत्त्वज्ञानस्य मिथ्याज्ञानजन्यवासनोन्मूलकत्वं मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा मोक्षजनकत्वं च परिकल्प्यते आगमव वनप्रामाण्यादित्यत आह - अष्टकलाने बेति । कर्मणो मलक्षयहेतुत्के वासिष्ठवचनं प्रमागयति-तथा चेति । तण्डुलस्येति पयं स्पष्टम् । अपि च तत्त्वज्ञानं पुण्यपापक्षयाऽन्यतरकारणं विहितत्वात् कर्मवदित्यनुमानेन पापक्षयजनकतया सिद्धस्य तत्त्वज्ञानस्य तद्वारैव मोक्षजनकत्व शुद्धधनुबन्धद्वारा मुकौ तुल्यवदेव हेतुत्वमिति समुच्चयपक्ष एवं दोषकलङ्करहित इत्याह-किश्चेति । ननु विहितत्वं चिकित्सादावस्ति न च तत्र पुण्यपापक्षयान्यारजनकत्वमिति व्यभिचारिणा विहितत्वहेतुना न तत्त्वज्ञानस्थ पुण्यपापक्षयान्यतर हेतुत्वं सिद्धयतीत्याशङ्कय-प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- मुमुक्षुविहितत्वेनेतितथा च मुमुक्षुविहितत्वमेव हेतुः, तस्याव्यभिचरितत्वात् प्रकृतसाध्यसाधकत्वं स्यादेवेति । समुच्चयपक्षमुपसंहरन् प्रन्थ

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496