Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
यस्याग्रे भान्ति किञ्चिन्न निरुपधिचिदुदु बुद्धशुद्धस्वभावात्, तद्रूपं स्वीयमुच्चैः प्रकटय भगवन् बाढमात्मन् ! प्रसीद ॥ १६ ॥
गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः, प्रौढि प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥१॥ सूरिश्रीविजयादिदेवसुगुरो: पट्टाम्बराहर्मणौ, सूरिश्रीविजयादिसिंहसुगुरोः शक्रासनं भेजुषि । सूरि श्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतौ, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ २ ॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि षट् च शतानि वै ॥ ३ ॥ ॥ ३६०० ॥ ॥ शुभं भूयात् ॥ इति महोपाध्याय श्रीकल्याणविजयगणिशिष्य मुख्य पण्डितलाभ विजयगणिशिष्यावतंस पण्डित श्रीजीतविजयगणि सतीर्थ्य तिलक पण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डित श्रीपद्मविजयगणि सहोदरेण उपाध्याय श्रीयशोविजयगणिना विरचिता नयामृततरङ्गिणीनाम्नी नयोपदेशटीका समाप्ता ॥ स्वस्ति श्रमण संघाय ||
४२०
॥ इति नयोपदेशः समाप्तः ॥
मका वेति । कथं ते शृङ्गारा इत्यपेक्षायामाह - परगुणरच नाजात रोचिष्णुभावा इति । " स्वभावात्" इत्यस्य स्थाने " स्वभावं " इति पाठो युक्तः । सार्ववाचः सर्वप्राणिहितकारिवचनस्य जैनसमयस्य । वेति त्रयं विकल्पार्थकम् | निक्षेपाः नाम-स्थापना द्रव्य भावनिक्षेपाश्चत्वारः । नयाः नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र शब्दसमभिरूढैवम्भूताः सप्त । तदुभयजनिता । नय- निक्षेपोभयसमुद्भवाः । सप्तभङ्गात्मकाः स्यादस्त्येव घट इत्यादिसप्तभङ्ग समाहारलक्षण सप्तभङ्गीस्वरूपाः। शृङ्गारा योग्य स्थान संनिविष्टभूषणविन्यासात्मकाः । यतः परे अन्ये विशिष्टा वा परेषाम् अन्येषां वा ये गुणास्तेषां रचनया- यथास्थानं संस्थापनया, जात उत्पन्नो रोचिष्णुभावो मनोरञ्जनस्वभावो येषां ते तथा । एवंभूता अपि यस्य भगवद्रूपस्यानन्तरमेव वक्ष्यमाणस्वरूपस्य । अग्रे सम्मुखे । किञ्चित् किञ्चिदपि । न भान्ति न प्रकाशन्ते । हे भगवन् ! सर्वैश्वर्यशालिन् । स्वीयं स्वात्यन्तसंबद्धम् सम्बन्धश्चात्रा विष्वग्भावः तेन स्वापृथग्भूतमिति पर्यवसितम् । तद्रूपं यद्रूपस्याग्रे शृङ्गारा न भान्ति एवम्भूतं रूपम् । किं स्वरूपं तदिति दर्शयति- निरुपधीति - उपाधिविनाकृतं परोपाधिकं यन्न भवति किन्तु स्वाभाविकं यच्चिता- चैतन्येनोद्बुद्धः - प्रकटीभूतः शुद्धस्वभावो यस्य तन्निरुपश्चिद्बुद्धशुद्धत्वभावं शुद्ध केवल चैतन्यस्वरूपमिति यावत् । उच्चैर्यथा स्यात् तथा प्रकटय प्रकाशय । हे आत्मन् ! मदभिन्नस्वरूप ! | बाढमत्यन्तम् । प्रसीद प्रसन्नो भव । स्वाभिन्नशुद्धचैतन्यात्मकभगवत्स्वरूपदर्शन तो मुक्तस्य मम न किञ्चिदभिलषणीयम् एतावन्मात्रमेतद्रन्थकरण प्रयोजनमिति गूढाभिसन्धिः ॥ १६ ॥
गच्छ इति श्रीविजयादिदेव सुगुरोः प्रौढिमधाम्नि स्वच्छे गच्छे जीत विजयप्राज्ञाः गुणानां गणैः परां प्रौढिमैयरुः, तत्सातीर्थ्यमृतां नयादिविजयप्राज्ञोत्तमानां शिशुर्यशोविजय इत्याख्याभृत् इदं किञ्चित् तत्त्वमाख्यातवानित्यन्वयः, अर्थस्तु व्यक्त एव ॥ १ ॥
सूरिश्रीविजयादिदेव सुगुरोरिति पद्यमपि स्पष्टार्थकम् । " कृती " इत्यस्य स्थाने " कृतो " इति पाठो ज्ञेयः । प्रत्यक्षरमिति पयं ग्रन्थकर्तुरन्यस्य वा स्पष्टार्थकम् ॥
इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरुश्रीविजयने मिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद - कविरत्नेति पदालङ्कतेन विजयलावण्यसूरिणा विरचिता तरणिनाम्नी नयामृततरङ्गिणीटीका समाप्ता ॥

Page Navigation
1 ... 489 490 491 492 493 494 495 496