Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 484
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनतो नयोपदेशः । ४१३ अनन्त[ र ]कारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् ? न- उत्पत्तावन्तरत्वस्य यथाख्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात् , व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यविनिगमात् ॥ ३ ॥ एतेनाक्षेपककारणप्राहकनयेन " जम्हा दसण-नाणा" [ ] इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् , आक्षेपकत्वं हि स्वेतरसकलकारणसमवधाननियतसमवधानकत्वम् , तच्च यथाख्यात इव केवलज्ञानेऽपीत्यविशेषात् , क्षयोपशमदशायामप्यपुनर्बन्धकादिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोप्रभाविततत्वज्ञानस्यापेक्षकत्वाविशेषात् ॥ ४॥ मुख्यै. कशेषनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात् ॥ ५॥ पुमर्थप्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् ? न- परमभावग्राहकनयेन ज्ञान एवं तद्विनिगमनायाः सुवचत्वात् " जं सम्मति पासहा तं मोणति पासहा" [ ] इत्यादिवचनात् ॥ ६ ॥ ७ ॥ कारकसम्यक्शरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- " जं अनाणी कम्म खवा ] इत्यादिवचनात् सम्यक्क्रयाशरीरनिर्वाहकत्वनयेन ज्ञानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात् ॥ ८ ॥ ९ ॥ एतेन " णिच्छयणयस्स चरणस्सवघाएण नाण-दसण. वहो वि" [ ] इत्यादिवचनाद् ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्वचत्वात् ॥१०॥ व्यापारप्राधान्यग्राहकक्रियानयेन चारित्रोत्कर्ष इत्युक्तावपि दर्शन विभागेन फलबुद्धिप्राहको यो नयस्तेनेत्यर्थः । तत्र मुक्तौ । " चारित्र हेतुत्वाभ्युपगम्यमानो" इत्यस्य स्थाने " चारित्रहेतुताऽभ्युपगम्यमाना" इति पाठो युक्तः, चारित्रस्य कारणता स्वीक्रियमाणा ज्ञानहेतुतामपि मुक्तौ ज्ञानस्य कारणतामपि न व्याहन्ति नैवापाकरोति । शङ्कते- अनन्तरेति- कार्यस्य यदव्यवहितपूर्ववर्ति तदेव कारणमित्यभ्युपगन्तृ. नयेनेत्यर्थः । तत्र मुक्तौ । प्रतिक्षिपति- नेति । उत्पत्ती मुक्त्युत्पत्तौ । उभयत्रापि ज्ञाने चारित्रे च । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । आक्षेपककारणग्राहकनयेन यत् स्वेतरसकलकारणाक्षेपकं तत् कारणमित्यभ्युपगन्तृनयेन । एतेनेत्यतिदिष्ट निरासहेतुमुपदर्शयति- आक्षेपकत्वं हीति। तच्च निरुक्तस्वरूपमाक्षेपकत्वं च । निरुतस्वरूपमाक्षेपकत्वं क्षयोपशमदशायामपि चारित्रविशेषस्येव तत्त्वज्ञानविशेषस्याप्यस्त्येव सम्भव इत्याह-क्षयोपशमशायामपीति । शङ्कतेमुख्यैकशेषनयेनेति- यत्कार्य ययोर्द्वयोर्मध्ये यदेव मुख्यं तदेव कारणमित्यभ्युपगन्तृनयेनेत्यर्थः । समाधते- नेति । तत्र मुक्तौ ज्ञान-चारित्रयोर्मध्ये । शङ्कते-पुमर्थग्राहकनयेनेति- ययोईयोर्मध्ये यः पुमर्थः पुरुषप्रयत्नसाध्यस्तमेव गृह्णातीति तमाहको नयस्तनेत्यर्थः। क्रियायामवेति- क्रियायाः पुरुषप्रयत्नसाध्यत्वेन तस्यामेवेत्यर्थः । समाधत्ते नेति । परमभावप्राहकनयेनेति- यो यस्य परमो भावः स एव तस्य स्वभाव इति ग्राहकनयेनेत्यर्थः । तद्विनिगमनायाः मुख्यत्वसाधकयुक्तः। अत्रागमवचनं प्रमाणयति-जं ति- शङ्कते-कारकेति- न केवलं निर्विशेषित ज्ञानं मोक्षकारक किन्तु सम्यग्ज्ञानमिति कारकं यत् सम्यग्ज्ञानं तस्य यत् सम्यक्त्वं तच्चारित्रसहचरितत्वादेवेति तच्छरीरनिर्वाहकत्वं चारित्रस्यैवं प्राहकनयेनेत्यर्थः । समाधत्ते- नेति । सम्यक्त्वेति- सम्यक्रिया सैव या ज्ञानसहचरितेति सम्यकक्रियाशरीरनिर्वाहकत्वं ज्ञाने इत्येवंग्राहिनयेनेत्यर्थः । एतेनेत्यस्यादुर्वचत्वादित्यनेन सुवच एवेत्यनेन चान्वयः । णिच्छयणयस्स इति “निश्चयनयस्य चरणस्यावघातेन ज्ञान दर्शनवधोऽपि" इति संस्कृतम् । ज्ञानेति-ज्ञाननाशव्याप्यो यो नाशस्तत्प्रतियोगित्वं चरणस्येत्येवं ग्राहको यः शुद्धनयो निश्चय नयस्तेनेत्यर्थः । अदुर्वचत्वात् सुवचत्वात् । व्यापारेति- व्यापार व्यापारिणोर्मध्ये व्यापारस्य प्राधान्यमित्येवं प्राहको यः क्रियानयस्तेनेत्यर्थः । दर्शनेति- क्रियादर्शनयोर्मध्ये दर्शनं प्रधानमित्येत ग्राहक ज्ञानमयेनेत्यर्थः, तथा च केनचिन्नयेन ज्ञानस्य प्राधान्यं केनचिन्नयेन चरणस्य प्राधान्यमित्येकस्यैव प्राधान्यमित्यस्य नियन्तुमशक्यत्वेन तयोः समुच्चय एव इति भावः । ज्ञानस्य प्राधान्ये पङ्गुदृष्टान्त

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496