Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 482
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो मयोपदेशः । भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वान्नान्यथासिद्धिः, नहि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात्, तेन विनापि कर्मण एव तदुत्पत्तेश्च न च वासुदेवादीनां कायव्यूहश्रवणात् तत्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इत्यपि साम्प्रतम्, तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूह - सम्भवात्, भोगजननार्थं कर्मभिरवश्यं तत्सकार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, यौगपद्यं च कायानां तज्जनक कर्मस्वभावात् तपःप्रभावाद् इति, न च " तावदेवास्य चिरं यावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन " [ ] इति श्रुतौ तावदेवास्य - उत्पन्नतत्त्वज्ञानस्य, चिरं विलम्बो, यावन्नोत्पन्नकर्मणो विमोक्षः, अथ सम्पत्स्यते कैवल्येन भोगेना ( न ) क्षपयित्वेति शेष:, इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव, न च शेषदाने मानाभावः सत्यपि ज्ञाने कर्मावस्थाने क्लृप्तसामान्यस्य भोगस्यैव नाशकत्वेनाक्षेपादिति वाच्यम्, तत्रज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः किन्तु तदपि क्षण इत्यर्थेनाप्युपपत्तेरिति चेत् ? मैवम्, कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञाना ( न ) व्यापारत्वात् न च तत्त्वज्ञानं विनापि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपभोगे वा व्यभिचाराभावादिति मणिकृतैवोक्तत्वात्, अस्मत्सिद्धातत्त्वज्ञानस्याप्यन्यथासिद्धत्वमापादयितुं शक्यम्, न चैत्रम् कर्मणो भोगनिवर्त्यत्वेन तत्त्वज्ञाननिवर्त्यत्वाभावे तत्त्वज्ञानाजन्यायाः प्रतिबन्धककर्मनिर्वृत्तेस्तत्त्वज्ञानव्यापारत्वाभावादित्याशङ्कते - अथेति । तदनाशकत्वात् कर्मनाशकत्वाभावात् । ननु भोगद्वारैव मोक्षं प्रति तत्त्वज्ञानं कारणमिति भोगेनैव तत्त्वज्ञानस्यान्यथासिद्धत्वमापादनीयमित्यत आह- नहीति । तत्र हेतुः - तथाऽश्रवणादिति तत्त्वज्ञानव्यापारतया भोगस्यागमवचनाप्रतिपाद्यत्वादित्यर्थः । भोगस्य तत्त्वज्ञानजन्यत्वे सति तत्त्वज्ञानव्यापारत्वं कल्पयितुं शक्यम्, न च भोगस्य तत्त्वज्ञानजन्यत्वं कर्मण एव भोगोत्पत्तेरित्याह- तेन विनाऽपीतितत्त्वज्ञानमन्तरेणाऽपीत्यर्थः । तदुत्पत्तेः भोगोत्पत्तेः । न चेत्यस्य साम्प्रतमित्यनेनान्वयः । " तत्कार्य निष्पादन " इत्यस्य स्थाने " तत्काय निष्पादन " इति पाठो युक्तः, तत्कायनिष्पादनं भोगजनक काय सम्पादनम् । तत्र भोगजनककायनिष्पादने । नन्वेवं कर्मभिस्तत्तद्भोगजनक कायानां क्रमेण भवनं भवेत् न यौगपद्येन, युगपदुत्पद्यमानानामेव कायानां कायव्यूह शब्द व्यपदेश्यत्वम्, न क्रमोत्पन्नानामिति युगपत्कायसमूहलक्षण कायव्यूहस्तत्त्वज्ञानादेव, तत्र तत्त्वज्ञानोपयोग इत्यत आह- यौगपद्यं चेति - युगपत्कायजनकेत्यर्थः । अचिन्त्यशक्तिश्च तपसामिति तत्प्रभावात् तत्सामर्थ्याद्युगपदनेककायोत्पत्तिरित्येतावता तत्त्वज्ञानमन्तरेणापि कायव्यूहः सम्भवतीत्याह - तपः प्रभावाद वेति । भोगस्य तत्त्वज्ञानव्यापारत्वमाशङ्कय प्रतिक्षिपति न चेति- अस्य वाच्यमित्युत्तरेण सम्बन्धः । तावदेवेति श्रुतेस्तत्त्वज्ञाने भोगव्यापारकत्वावेदकत्वस्पष्टप्रतिपत्तये तद्वयाख्यानमाह - तावदेवेति यावदित्युत्तरापेक्षं तावदिति । अस्येत्यस्य विवरणमुत्पन्नतत्त्वज्ञानस्येति । चिरमित्यस्य विवरण- विलम्ब इति । न विमोक्ष इत्यस्य विवरणं- नोत्पन्नकर्मणो विमोक्ष इति । अथ सम्पत्स्यते इत्यत्र केन सम्पत्स्यते ? कथं सम्पत्स्यते ? इति प्रकार कर्तव्यताकाङ्क्षयोर्निवृत्त्यर्थमाह- कैवल्येन भोगेन क्षपयित्वेति शेष इति- भोगेन प्रारब्धकर्म क्षपयित्वा कैवल्येन स्वस्वरूपमात्रावस्थानलक्षणमोक्षेण सम्पत्स्यते मुक्तो भवतीति यावत् । इति व्याख्यानात् एवंस्वरूपव्याख्यानात् । शेषकरणे मानाभावमाशङ्कय प्रतिक्षिपति - न चेति । शेषदाने शेषकरणे । प्रतिक्षेप हेतुमाह - सत्यपीति । भोगस्य तत्त्वज्ञानव्यापारत्वाशङ्काप्रतिक्षेप हेतुमुपदर्शयति तत्त्वज्ञाने सतीति । " तदपि म्रक्षणे " इत्यस्य स्थाने “ तदपगमक्षणे ” इति पाठो युक्तः, तस्य तत्त्वज्ञानविनाशक्षणे इत्यर्थः । अथ कर्मणो भोगनाश्यत्वेनेत्याद्याशङ्का प्रतिक्षिपति - मैवमिति । 6. ज्ञानस्य कर्मनाशकत्वं, भोगस्य " इत्यस्य स्थाने ज्ञानस्य कर्मनाशकत्वे भोगस्य " इति पाठो युक्तः, यथा कर्मणो भोगनाश्यत्वं श्रुत्या प्रतिपादितं तथा तत्त्वज्ञानस्य कर्मनाशकत्वमपि श्रुत्या प्रतिपादितम्, तत्र श्रुतिप्रतिपादिते ज्ञानस्य कर्मनाशकत्वे भोगस्य तत्त्वज्ञानव्यापारत्वाभावाद् भोगमद्वारीकृत्यैव तत्त्वज्ञानेन कर्मणो नाशसम्भवादित्यर्थः । ननु तत्त्वज्ञानत्वेन कर्मनाशत्वेन च कार्यकारणभावो न भवति, तत्त्वज्ञानाभावेऽपि भोगात् कर्मनाशस्य सम्भवेन तत्र व्यतिरेकव्यभिचारादित्याशङ्कय प्रतिक्षिपति न चेति । " ४११

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496