Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 483
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्तेऽपि नाशार्थिप्रवृत्तौ नाश्यनिश्चयविधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम् , तदुक्तं निर्युक्तौ समुद्घाताधिकारे " णाऊण वेयणिज्जं अइबहुअं आऊयं च थोवागं । कम्म पडिलेहेउं वच्चंति जिणा समुग्घायं " ॥ अत्र क्त्वाप्रत्ययबलादेव नियतपौर्वापर्यस्यार्थाच्चानन्यसिद्धत्वस्य प्रतीतेः कारणत्वलाभः । अन्यदप्याभोगवीर्यस्यैव केवलिनः कर्मक्ष यहेतुत्वादाभोगान्वितवीर्यत्वेन वीर्यान्विताभोगत्वेनापि हेतुत्वादुक्तार्थ. सिद्धिः, यत् पुनः " दोषपक्तिमंतिज्ञाना अकिश्चिदपि केवलात् । तमःप्रचयनिःशेषविशुद्धिफलमेव तत् ॥ १॥" इत्यनेन केवलज्ञानस्याकिञ्चित्करत्वमुच्यते तदोषपक्तिरूपकार्यापेक्षया, न तु पकानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्य, तत्तद्व्यापारस्य तदा जागरूकत्वात् , यदि च स्वरूपशुद्धिग्राहकनयेन केवलज्ञानस्य निर्व्यापारत्वं स्वीक्रियते तदा यथाख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम् , समुद्घातादिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात् ॥ १ ॥ मुक्तिबन्धहेतुविवेकेन फलशुद्धिग्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति ॥ २ ॥ प्रतिक्षेपहेतुमाह- कर्मप्रागभावासहवृत्तीति- स्वसमानाधिकरणकर्मप्रागभावाधिकरणकालावृत्तीत्यर्थः, न तु स्वसमानाधिकरणकर्मप्रागभावाधिकरणकालवृत्तीत्यर्थः, तथा सति संसारदशाकालीनकर्मनाशस्यापि स्वसमानाधिकरणकर्मप्रागभावानधिकरणमुक्तिकालवृत्तित्वेन निरुक्तकार्यतावच्छेदकाऽऽकान्ततया तस्य तत्त्वज्ञानं विनैव व्यतिरेकव्यभिचारस्तदवस्थः स्यादिति बोध्यम् , कायव्यूहद्वारा युगपद्भोगस्तत्त्वज्ञानादेव भवति, तत्र तत्त्वज्ञानस्य कारणत्वे व्यतिरेकव्यभिचाराभावादित्यर्थः । अस्मसिद्धान्तेऽपि जनैसिद्धान्तेऽपि । “कर्महेतुत्व" इत्यस्य स्थाने "कर्मनाशहेतुत्व" इति पाठो युक्तः । अनपायं निर्विघ्नम्। उक्तार्थे नियुक्तिवचनं प्रमाणयति-तदुक्तमिति । णाउण० इति- “ ज्ञात्वा वेदनीयमतिबहुकमायुष्क च स्तोकम् । कर्म प्रतिलेखितु व्रजन्ति जिनाः समुद्घातम् ॥” इति संस्कृतम् । अत्र उक्तनिरुक्तिवचने। तवाप्रत्ययबलात् णाउण- ज्ञात्वेति त्वाप्रत्ययबलात्, अस्य प्रतीतेरित्यनेनान्वयः, एवं नियतपौर्वापर्यस्येत्यस्यापि तेनैवान्वयः । "नन्यसिद्धत्वस्य" इत्यस्य स्थाने " नन्यथा सिद्धत्वस्य' इति पाठो युक्तः । कारणत्वलाभः। अनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वस्वरूपं कारणत्वं तस्य घटकयोरनन्यथासिद्धत्व-नियतपूर्ववर्तित्वयोः प्रतीत्या लाभः। अन्यदपीतियुक्त्यन्तरमपि तत्र प्रमाणमित्यर्थः । युक्त्यन्तरमेव दर्शयति- आभोगवीर्यस्यैवेति- आभोगः- उपयोगात्मकज्ञानस्वरूपः, तद्वीर्यस्य कर्मक्षयं प्रति कारणत्वे ज्ञानस्य कर्मक्षयं प्रति कारणत्वमायातमेवेत्याशयः। यत्पुनरित्यस्य 'अकिञ्चित्करत्वमुच्यते' इत्यनेन सम्बन्धः । "ज्ञाना अ" इत्यस्य स्थाने " ज्ञानाद" इति पाठो युक्तः । तमःप्रचयेत्यत्र तम:पदमज्ञानार्थकम् । तत् केवलज्ञानम् । तत् केवलज्ञानस्याकिञ्चित्करत्ववचनम् । “तत्तद्वयापारस्य" इत्यस्य स्थाने " तत्र तद्वयापारस्य " इति पाठो युक्तः । तत्र पक्कभवोपग्राहिकर्मक्षये । तव्यापारस्य तत्त्वज्ञानव्यापारस्य । तदा भवोपग्राहिकर्मणां पक्वतादशायाम् । जागरूकत्वात् अवश्यम्भावात् , यो हि स्वकार्यमवश्यमेव सम्पादयति स तत्र समर्थस्तस्मिन् कार्ये जागरूको न तु तत्र सुप्तः, एवं तझ्यापारोऽपि तथा, जागर-स्वापादीनां ज्ञानाज्ञानाद्यवस्थाविशेषाणां वस्तुगत्या चेतनधर्माणां व्यापारे वस्तुतोऽभावादुपचारादेव तत्तत्कार्येऽवश्यम्भावमुपादाय तथा व्यपदेश इति बोध्यम् । स्वरूपशुद्धिग्राहकनयेनेति- केवलज्ञानं स्वरूपतः शुद्धमेव न तु किञ्चिद्धर्मकलङ्कितमित्येवस्वरूपशुद्धकेवलग्राहिनयेनेत्यर्थः । तथात्वमेव नियापारत्वमेव । ननु यदि यथाख्यात चारित्रात्मिका क्रिया निर्व्यापारा तदा समुद्घातादिना कर्मक्षपणव्यापारः केन भवेदित्यपेक्षायामाह- समुदघातादिनेति । मुक्ति बन्धहेतुविवेकेनेति- अयं मुक्ति हेतुरयं च बन्धहेतुरित्येवं

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496