Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
कस्यापि न्यूनत्वं पराभिमतद्वारस्थाने एव फलाभिषेकात् , एकपुरस्कारेणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्मकारणताबोधकवचनेऽनुकूलत्वमात्रमर्थः, कारणताशक्तपदस्यानुकूलत्वे लक्षणायां न्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभाव उपेयते तदा घटवद्भूतलमिति बुद्धिं प्रति तद्धटाभाववद्भूतलमिति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् , तद्धटाभावस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वत्तानिश्चयस्यापि निरुक्तप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवमेव प्रतिबध्य-प्रतिबन्धकमाव इति तद्धटात्यन्ताभावस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावेन निरुक्तप्रतिबन्धकत्वस्य तद्धटाभाववत्तानिश्चये वारणं सम्भवतीत्येवं प्रतिबध्य-प्रतिबन्धकभावानुरोधेनात्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं स्वीक्रियते; तथा घटत्ववत्ताबुद्धिं प्रति घटभेदवत्तानिश्चयस्य प्रतिबन्धकत्वम् तत्रापि घटत्वत्वेतरधर्मानवच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितघटनिष्ठप्रतियोगिकभेदत्वावच्छिन्नप्रकारतानिरूपितेदनत्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभावो यद्यपेयते तदाऽयं घट इति बुद्धि प्रति नायं तद्धट इति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् तद्धटभेदस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वतानिश्चयस्यापि निरुतप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वेतरधर्मावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपिते इन्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपितघटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रकारतानिरूपितेदन्वायवच्छिन्नविशेष्यताकनिश्चयत्वाद्यवच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्ध प्रतिबन्धकभावो वाच्यः, तटभेदस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावान तद्वत्तानिश्वयस्य प्रतिबन्धकत्वापत्तिः, घटत्वनिष्ठप्रकारताया घटत्वत्वेतरधर्मानवच्छिन्नत्वेन निवेशादयं घट इति घटत्ववानिति च बुद्धयोः प्रतिबध्यत्वोपपत्तिः, सामान्यवानयमिति बुद्धश्च नायं घट इति निश्चयप्रतिबध्यत्वानापत्तिश्चेत्येवं प्रतिबध्यप्रतिबन्धकभावानुरोधेन भेदस्यापि सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमुपेयते; ध्वंस-प्रागभाव चेकैकप्रतियोगिकावेव, न त्वेकघटधंसप्रागभावावन्य घटप्रतियोगिको स्तः, तौ च स्वप्रतियोगिसमवायिवर्तिनाविति यत्रैव कपाले तद्धटो वर्तते तत्रवैतद्धटोत्पत्तितः प्राकाले एतद्धटप्रागभावो वर्तते, एतद्धटाधिकरणचरमसमयानन्तरसमये चैतद्धटध्वंसो वर्तत इत्येवं स्वरूपतः स्वप्रागभाव-ध्वंसाभ्यां समं नास्त्येतद्धटस्य विरोधः, किन्तु यद्येसमयावच्छेदेनैतद्धटध्वंस-प्रागभावौ तत्तत्समयावच्छेदेन तदधिकरणीभूतकपाले नैतद्घट इति पूर्वोतरसमयावुपादायैव विरोध इति तत्समयावच्छिन्नसमवायेन तद्धटवत्ताबुद्धि प्रति तत्समयावच्छिन्नस्वरूपेण तद्धटप्रागभाववत्तानिश्चयस्य तत्समयावच्छिन्नस्वरूपेण तद्घटध्वंसवत्तानिश्चयस्य च प्रतिबन्धकत्वमिति तत्र तत्तद्घटनिष्ठप्रतियोगिताकत्वेन प्रागभाव-ध्वंसयोः प्रवेशेऽपि घटान्तरध्वंस घटान्तरप्रागभावयोस्तद्घनिष्ठप्रतियोगिताकत्वाभावादेव न तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिरिति प्रतिबध्यप्रतिबन्धकभावस्य ध्वंस-प्रागभावयोः किञ्चिद्धर्भावच्छिन्नप्रतियोगिताकत्वस्वीकारमन्तरेणाप्युपपत्तेः किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकत्व एव तयोर्भानं नास्ति, किमु वक्तव्यं तयोः सामान्यधर्नावच्छिन्नकत्वे इति विवादसूचनायोक्तं सामान्यावच्छिन्नध्वंसनय इति- घट-घटप्रागभावानधिकरणसमयवृत्तित्वावच्छेदेन तद्घटध्वंसे घटत्वावच्छिन्नप्रतियोगिताकत्वं घट घटप्रागभावाधिकरणसमयवृत्तित्वावच्छेदेन घटत्वावच्छिन्नप्रतियोगिताकत्वभाव इत्येवमव्याप्यवृत्तिघटत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसे, यथा विशेषाभावकूटातिरिक्तसामान्याभावानभ्युपगन्तृनये विशेषाभावकूटत्वावच्छेन सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वं तत्तद्विशेषाभावत्वावच्छेदेन सामान्यधर्मावच्छिन्नप्रतियोगिकत्वाभाव इति ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्युपगन्तुरभिप्रायः । कर्मत्वावच्छिन्नध्वंसे कर्मत्वावच्छिन्नप्रतियोगिताकध्वंसे तत्पुरुषीयकर्मतत्प्रागभाव नधिकरणसमयवृत्तित्वोफ्लक्षिते कर्मत्वावच्छिन्नप्रतियोगिताकध्वंस इति यावत् , ज्ञानस्य हेतुतेति प्रकरणालभ्यते। वा अथवा । “तत्समयावत्" इत्यस्य स्थाने "तत्समययावत्" इति पाठो युक्तः, तत्समयः- क्षायिकसुखत्वावच्छिन्नसमयवृत्तिः केवलज्ञानसमयवृत्तिा यो यावत्कर्मक्षयस्तत्समनियतं यत् सुखत्वावच्छिन्नं तत्र ज्ञानस्य हेतुतेत्यर्थः । इति एवं स्वीकारे । न कस्यापि न्यनत्वं न किञ्चिदपि हीयते, यज्ज्ञानकर्मणोरितयाऽभिमतं ज्ञानमल्याद्यपूर्व वा तत्स्थान एव फलस्य क्षायिकस्य सुखस्याभिषेकात्-स्थापनादित्यर्थः । यच ज्ञानमेव कारणं न कर्मेति कमैव कारणं न ज्ञानमिति वचनं तज्ज्ञानस्य
५२

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496