Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 476
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । योगेन कर्मनाशार्थ वा तत्, इदमेव च द्वारि-द्वारयोः कर्म-तत्त्वज्ञानयोः कारणत्वं तुल्यकक्षतया समुच्चयो नेष्ट इत्यनेन विवक्ष्यते, यद्यपि च तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दम् , तथापि 'तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात् यमादिवत्' इत्यनुमानात् तथात्वसिद्धिः, न च योगत्वमुपाधिः " कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् " [ इत्यादिपुराणात् “ रुद्रस्तारकं ब्रह्म व्याचष्टे , [ ] इति श्रुतेश्च काशीप्रायागादेस्तत्त्व. ज्ञानव्यापारकत्वसिद्धौ तत्र साध्याव्यापकत्वाद् इत्याहुः । स्वतन्त्रास्तु- " तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म. णामपूर्वद्वारा जनकत्वं दुरितध्वंसकल्पनातो लघुत्वात् , वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यम् , तदेव तु न युकं “ कर्मणा न प्रजया धनेन " [ ] " नान्यः पन्था विद्यतेऽयनाय " [ श्वेता० ३. ८६. १५.] " नास्त्यकृतः कृतेन" नाशेऽपि प्रारब्धकर्मणां भोगदेव क्षयो ' नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।" [ ] इति वचनात् तत्र कर्मपदस्य प्रारब्धकर्मपरत्वात् , एवं च तत्त्वज्ञानिनो यद् दुःखजनकं प्रारब्धं कर्म तद् दुःखमदत्त्वा न नश्यति, यावन्न तन्नाशस्तावन्न तन्मुक्तिरित्यग्निसंपालनप्रयासोत्पन्नदुःखोपभोगेन कर्मनाशार्थमग्निसंपालनं कर्तव्यकक्षामास्कन्दतीति कल्पान्तरमाह- तत्तदुःखयोगेनेति । तत् आरब्धाग्निसंपालनम् । तथा चोक्तदिशा तत्त्वज्ञानद्वारा कर्म मुक्किं जनयतीति मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति भवत्येवेत्याशयेनाह- इदमेव चेति- अनन्तरोपदर्शितस्वरूपमेवेत्यर्थः । तुल्यकक्षतया समप्रधानतया मुक्ति प्रति कारणत्वेन । समुच्चयः तत्त्वज्ञान-कर्मणोः समुच्चयः । नेष्टः नाभिमतः। न शाब्दं न शब्दप्रमाणगम्यम् । तथाऽपि तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वस्य शब्दप्रमाणागम्यत्वेऽपि । तथास्वसिद्धिः तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वसिद्धिः । ननु यत्र यत्र तत्त्वज्ञानव्यापारकत्वं तत्र तत्र योगत्वमित्येवं तत्त्वज्ञानव्यापारकत्वलक्षणसाध्यव्यापकत्वाद् यत्र यत्र मोक्षजनककर्मत्वं तत्र तत्र योगत्वमिति नास्ति तीर्थविशेषस्नानादीनां मोक्षजनककर्मत्वेऽपि योगत्वाभावादित्येवं मोक्षजनककर्मत्वलक्षणसाधनाव्यापकत्वाद् योगत्वमुपाधिरिति सोपाधिकत्वाद् व्याप्यत्वासिद्धिदोषप्रस्तो मोक्षजनककर्मत्वलक्षण हेतुर्न तीर्थविशेषस्नानादीनां तत्र ज्ञानद्वारकत्वलक्षणसाध्यसाधनाय प्रभुरित्याशङ्कय प्रतिक्षिपति- न चेति । काशीमरणादेस्तत्त्वज्ञानद्वारा मोक्षजनकत्वस्य शास्त्रसिद्धत्वेन तत्र तत्त्वज्ञानव्यापारकत्वलक्षणं साध्यमस्ति, योगत्वं च तत्र नास्तीत्येवं साध्यव्यापकत्वाभावेन योगत्वस्योपाधित्वासम्भवादिति निषेधहेतुमुपदर्शयति- कथयतीति । भगवान् सदाशिवः । इह काश्याम् । अन्तकाले मरणाव्यवहितपूर्वकाले। भवभयकातरतारकं भवः- संसारः, तस्माद् यन्नरकादिदुःखप्राप्तिभयं तेन कातरा ये जनास्तेषां तारकं-संसारसमुद्रोत्तारं पुनः संसारागमननिबन्धनम् । प्रबोधं तत्त्वज्ञानक तारकमन्त्रं कर्णे कथयति उपदिशतीत्यर्थः । रुद्र इति- सदाशिवः, तारकं ब्रह्म ब्रह्मज्ञानजनकं मन्त्रं कथयतीत्यर्थः । "काशीप्रायागादे" इत्यस्य स्थाने "काशीमरणादे" इति "काशीप्रमापणादे" इति वा पाठो युक्तः, प्रमापणं मृत्युः । तत्र काशीमरणादौ । साध्याव्यापकत्वात् साध्यं तत्त्वज्ञानद्वारकत्वं तत्रास्ति योगत्वं च नास्तीत्येवं साध्याव्यापकत्वात् । इति एवम् । आहुः उदयनानुसारिणो वदन्ति । स्वतन्त्राणां मतमुपदर्शयति- स्वतन्त्रास्त्वितिअस्य 'आहुः' इत्यनेनान्वयः । तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म तत्त्वज्ञानस्याङ्गं - कारणमिति पक्षे । कर्मणामपूर्वद्वारा जनकत्वं नित्य नैमित्तिककर्मणामदृष्टद्वारा तत्त्वज्ञानजनकत्वम् । लघुत्वात् लाघवात् , तत्त्वज्ञानं प्रति तत्त्वज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा कर्मणां जनकत्वे तत्त्वज्ञानप्रतिबन्धकं दुरितं कल्पनीयं तन्नाशश्च कल्पनीय इत्येवं द्वितयकल्पना. पेक्षयकापूर्वकल्पने लाघवादित्यर्थः । यच्चोदयनाचार्यानुसारिभिस्तत्त्वज्ञानद्वारा कर्मणां निःश्रेयस प्रति हेतुत्वमित्युच्यत तस्यायुक्तत्वमावेदयति-वस्तुत इति । तज्जन्येति- कर्मजन्येत्यर्थः । कर्मजन्यत्वं यदि निःप्रेयसे भवेत् तदा कर्मजन्यनिःश्रेयसजनकत्वात् तत्त्वज्ञान व्यापारकत्वं कर्मणां युज्येतापि, न चैवमित्याह- तदेव त्विति - नि.श्रेयसे कर्मजन्यत्वमेव वित्यर्थः । युक्तत्वाभावे हेतुमुपदर्शयति- न कर्मणेति- “न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः” इत्येकं श्रुतिवचनं कर्मणो मोक्षजनकत्वनिषेधोपदर्शकम् , “ तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति द्वितीयं श्रुतिवचनं

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496