Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पूर्वीय व्रीहि विशेषे नखनिर्भेदाप्राप्तेः, तत्रापि नियमादृष्टानुपपत्तिरिति चेत् ? न - शक्य परिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात्, यथा “ व्रीहीनवहन्ति " इत्यत्र पक्षे प्राप्तस्य नखनिर्भेदादेः शक्येन परिवर्जनेनाभिघातो नियम्यते - ' अवहन्तव्या एव न नखैर्निर्भेतव्याः' इति, नैत्रमत्र, तत्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन्न विरोधिगुणरोगादिनेति शक्यं प्रतिज्ञातुं तस्यापुरुषतन्त्रत्वात् । अत एव प्रोक्षि(त) व्रीह्यवघातत्वेनै ( ) व श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वधौव्यमिति निरस्तम्, प्रोक्षणादेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात् तत्र तथोक्तिसम्भवेऽप्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा वक्तुमशक्यत्वात् । किञ्च, अत्र विजातीय तत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुत्वान्न श्रेयसी अदृष्टकल्पना, तत्र वै जात्येनैव हेतुत्वे तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तौ कृष्णले प्रोक्षणबाधापत्तेः, न चावहन्तव्यप्रोक्षणत्वेनाप्यदृष्टहेतुत्वात् तत्रापि नियमादृष्टुं कल्पनीयम्, दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितत्वादित्य
४०३
""
स्त्रियं यदा गन्तुमिच्छति तदा भार्यागमनं न प्राप्तम्, यदा भार्यां गन्तुमिच्छति तदा भार्यागमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ भार्यामेवेति नियमः, एवमपि ऋतावेव भार्यामेव कदाचिद् गन्तुमिच्छति तदानीं गमनं प्राप्तम्, यदा च गमनं नेच्छति तदानीं न गमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ उपेयादेवेति नियमः, तथा च ऋतौ भार्यायामगमने प्रत्यवायः, अनृतावपि भार्यायां गमने प्रत्यवायः, ऋतावेव भार्याभिन्नाबलायां गमने प्रत्यवाय इति लभ्यते, एवमृतुकाले नियमतो भार्यागमने पुण्यमिति । सामान्यावच्छेदेन पाक्षिक प्राप्तेर्नियम मूलत्वा वेदनाय दृष्टान्तमुपदर्शयति- यथेति व्रीहीनवन्तीत्यत्र यदा तुषविमोकार्थं नखनिर्भेदादिकं कर्तुमिच्छति तदानीमवधातो न प्राप्तः किन्तु नखनिर्भेदादिकमेव प्राप्तमित्येवं पक्षे प्राप्तस्य नखनिर्भेदादेः परिवर्जनं कर्तुं शक्यत इति शक्येन परिवर्जनेनाभिघातो नियम्यते इत्यर्थः । तन्नियमस्वरूप मुल्लिखति- अवहन्तव्या एवेतितथा च तुषो नखनिर्भेदादितोऽपि भवतीति तत्रान्यथासिद्धस्य नियमितावघातस्य दृष्टमेव बलमित्यर्थः । " नैत्रमत्र, तत्त्व इत्यस्य स्थाने " नैवमत्र तत्त्व" इत्येवमुल्लेखो युक्तः, अत्र तत्रज्ञानेनैव मिथ्याज्ञानं निवर्तयेन्न विरोधिगुणादित्येवं प्रतिज्ञातुं न शक्यमित्यन्वयः । प्रतिज्ञातुमित्यस्य " प्रतिज्ञातुं ' इत्युलेखो विधेयः । तत्र हेतुमाह - तस्येति - मिथ्याज्ञाननिवर्तनस्य पुरुषप्रयत्नानधीनत्वात्, तत्त्वज्ञानेनापि तन्निवर्तयितुं शक्यं कारणान्तरेणापीत्यर्थः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । प्रोक्षितेति - व्रीद्दीन् प्रोक्षतीत्यपि नियमविधिरेव प्रोक्षिता एव व्रीहयोऽवघाताय कल्पन्त इत्यप्रोक्षितव्रीहीणामवघातस्य सम्भवेऽपि न तैरवघातितैर्यागोपकार इति तुषविमोकलक्षणं कार्यमकिञ्चित्करं तत्र, किन्तु प्रोक्षितव्रीह्यवघातेन नियमादृष्टमुत्पद्यते तद्द्द्वारा प्रोक्षणं यागाङ्गमतो यथा प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टं प्रति कारणत्वं तथा श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टं प्रति कारणत्वमित्यप्यत एव निरस्तमित्यर्थः । अत एवेत्यनेनोक्तमेव निरासहेतुं स्पष्टयति- प्रोक्षणादेरिति । प्रधानाङ्गत्वेन प्रधानीभूतयागाङ्गत्वेन प्रधानेनाऽपूर्वे जनयितव्ये सहकारितया प्रोक्षणादिकमपेक्षितम्, प्रोक्षणं च क्रियारूपत्वाच्चिरविनष्टत्वेन न साक्षात्प्रधानापूर्व जनकमतोऽदृष्टद्वारा जनकत्वमिति प्रधानापूर्वफलकादृष्टजनकत्वात् प्रोक्षणस्थले प्रोक्षितव्रीह्यवघातत्वेन नियमादृष्टहेतुत्वोक्तिसम्भवेऽपि तत्त्वज्ञानस्थले प्रधानस्य तत्त्वज्ञानस्यैवाज्ञाननिवृत्तिलक्षणदृष्टफलकत्वेन श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्ट हेतुत्वस्य वक्तुमशक्यत्वादित्यर्थः, तत्त्वज्ञानस्थले नियमादृष्टाभावे युक्तत्यन्तरमुपदर्शयति- किञ्चेति । अत्र तत्त्वज्ञानस्थले । दृष्टद्वारा अज्ञान निवृत्तिलक्षणदृष्टद्वारा । तत्र अवघातस्थले । वैजात्येनैवेति अवघाते वैजात्यं कल्पयित्वा कल्पितेन वैजात्येनैवावघातस्य प्रधान सहकारित्वेन प्रधानजन्यापूर्वं प्रति हेतुत्वे विजातीयावघातत्वावच्छिन्ने प्रोक्षणस्य हेतुत्वे कृष्णले अवघातस्यैवाभावेन विजातीयावघातस्याप्यभावाद् विजातीयाव घातकारणत्वेन विहिततयाऽभिमतस्य प्रोक्षणस्य बाधापत्तेरित्यर्थः । ननु व्रीहीन् प्रोक्षतीति विनाऽवहन्तव्य प्रोक्षणत्वेनापि प्रधानाङ्गत्वं विधीयते, कृष्णलश्चावहन्तव्यो न भवतीति तत्प्रोक्षणस्य प्रोक्षणत्वेन हेतुत्वमिति न कृष्णले प्रोक्षणवाघ इत्याशङ्कय प्रतिक्षिपति- न चेति । अदृष्टहेतुत्वात् प्रधानापूर्वहेतुत्वात् । तत्रापि अवघातस्थलेऽपि । “ नियमादृष्टं कल्पनीयं " इत्यस्य स्थाने नियमादृष्टं न कल्पनीयं " इति पाठो युक्तः । निषेधे हेतुमाह- दृष्टेति । स्यैव " इत्यस्य स्थाने " दृष्टार्थस्येव " इति पाठो युक्तः, अवघातादेस्तुषविमोकलक्षणदृष्टार्थस्येव नियमादृष्टरूपप्रयोजनस्य
66
-

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496