Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 473
________________ ४०२ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः। मिथ्याज्ञानध्वंसेन दृष्टेनैवोपपत्तावदृष्टकल्पनाऽयोगात्, अन्यथा भेषजादिष्वपि तत्कल्पनापत्तेः, एवं च विहितत्वं तत्रैव व्यभिचारीति द्रष्टव्यम् , न चावघातवनियमादृष्टकल्पना, तत्र वैतुष्यस्यान्यथापि सम्भवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेरन्यथाऽसम्भव इति विशेषात् , नन्वत्रापि विरोधिगुणान्तरोत्पत्तेरपि मिथ्याज्ञानध्वंसः सम्भवति, न च मिथ्याज्ञानपदं तद्वासनापरम्, तत्त्वज्ञानात् तद्ध्वंसस्यैवाङ्गीकारात् , तस्य चान्यथा असम्भव एवेति वाच्यम् , अचिकित्स्यरोगादितापस्यापि सम्भवात् , न चेतरवासनानाशेऽपि ततः संसारवासनाया अनाश इति वाच्यम् , सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , अन्यथा तत्र तत्त्वज्ञानस्य व्यापारतया क्लुप्तो यो मिथ्याज्ञानध्वंसस्तेन दृष्टेनान्यत्रापि मोक्षरूपफलस्योपपत्तावदृष्टस्य व्यापारतया कल्पनाया अयोगादित्यर्थः । अन्यथा दृष्टेन कार्योपपत्तावप्यदृष्टस्य कल्पने । तत्कल्पनापत्ते। अदृष्टकल्पनापत्तः, भेषजादीनामपि विहितत्वेनादृष्टजनकत्वसाधनस्य कर्तुं शक्यत्वादिति तत्राप्यदृष्टस्य प्राधान्यं प्रसज्येतेत्यर्थः । एवं च भेषजादीनां दृष्टद्वारेणैव फलजनकत्वव्यवस्थितौ च, भेषजादीनां विहितत्वमस्ति, अदृष्ट जनकत्वं च नास्य दृष्ट जनकत्वरूपसाध्याभाववति भेषजादौ वृत्तित्वाद् विहितत्वं व्यभिचारीति न तेन तत्त्वज्ञानस्यादृष्टजनकत्वं सिध्यतीति नादृष्टस्य प्राधान्यमित्यर्थः। ननु व्रीहीनवहन्तीत्यत्र व्रीहीनवहन्यादेवेति नियमविध्याश्रयणाद् वैतुष्यलक्षणदृष्टव्यापारस्य सम्भवेऽपि नियमान्यथाऽनुपपत्त्याऽवघातजन्यादृष्टं व्यापारतया कल्प्यते, तथा प्रकृतेऽपि आत्मा ज्ञातव्य एवेति नियमविध्याश्रयणात् तदन्यथानुपपत्त्या नियमादृष्ट कल्पनीयमित्यदृष्टस्य प्राधान्यं स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेति । प्रतिक्षेपहेतुमुपर्शयतितत्रेति-- ब्रीहीनवहन्तीत्यत्र वैतुष्यकरणार्थक एव यद्यवघातस्तदा वैतुष्यरूपकार्यस्यावघातमन्तरेणापि नखविदारणादिना सम्भवेनावघातस्य वैयर्थं स्यादतोऽदृष्टद्वारा व्रीहिकरणकयाग एवावघातस्य हेतुत्वमिति कल्पनाऽऽवश्यकी, प्रकृते तु तत्त्वज्ञानतो मुक्तिमिथ्याज्ञाननिवृत्तिमन्तरेण न सम्भवति, मिथ्याज्ञाननिवृत्तिश्चात्मज्ञानमन्तरा न सम्भव इति मिथ्याज्ञाननिवृत्तस्तत्त्वज्ञानजन्यत्वमावश्यकमिति न प्रयोजनं नियमादृष्टकल्पनाया इत्येवं विशेषादित्यर्थः । शङ्कते- नन्विति । अत्रापि तत्त्वज्ञानविधिस्थलेऽपि । विरोधीति- यथा ज्ञानान्तरं स्वरोधीच्छादिना नश्यति योग्यविभुविशेषगुणानां स्वाव्यवहितोत्तरवृत्तिविशेषगुणनाश्यत्वमिति नियमात् , तथा मिथ्याज्ञानमपि स्वविरोधिगुणान् नश्यतीति मिथ्याज्ञानध्वंसस्यान्यथैवोपपत्तेरदृष्टमेव तत्त्वज्ञानजन्यमभ्युपेयमिति तस्य प्राधान्यं स्यादेवेत्यर्थः । अत्र समाधानमाशङ्कय प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेन सम्बन्धः । तद्वासनापरं मिथ्याज्ञानजन्यवासनारूपार्थतात्पर्यकम् , तथा च वासनाया भावनाख्यसंस्काररूपाया अतीन्द्रियत्वेन योग्यविभुविशेषगुणत्वाभावान्न स्वविरोधिगुणत्वाभावान स्वविरोधिगुणान्तरोत्पत्तितो नाश इति तत्त्वज्ञाननाश्यत्वमेव तस्या अभ्युपेयमित्याह- तत्त्वज्ञानादिति । तदुध्वंसस्यैव मिथ्याज्ञानजन्यवासनाध्वंसस्यैव । तस्य च मिथ्याज्ञानवासनाध्वंसस्य तु । अन्यथा तत्त्वज्ञानमन्तरेण । निषेधहेतुमाह- अचिकित्स्येति " अचिकित्स्यरोगादिताप. स्यापि सम्भवात्" इत्यस्य स्थाने " अचिकित्स्यरोगादिनाशवत् तस्यान्यन्यथासम्भवात् " इति पाठो युक्तः, अचिकित्स्यःचिकित्सया निवर्तयितुमशक्यो यो रोगस्तदादेर्यथा चिकित्साद्यतिरिक्तकारणान्तरादेव नाशस्य सम्भवस्तथा मिथ्याज्ञानजन्यवासनानाशस्यापि तत्त्वज्ञानातिरिक्तकालादिकारणादेव सम्भवादित्यर्थः । ननु कालस्मृत्यादिरूपकारणान्तरादन्यवासनानाशस्य सम्भवेऽपि मिथ्याज्ञानजन्यसंसारवासनाया न तत्त्वज्ञानातिरिक्तकारणतः सम्भव इति तत्त्वज्ञानादेव मिथ्याज्ञानजन्यवासनानाश इत्याशङ्कच प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेनान्वयः । इतरवासनानाशेऽपि तत्त्वज्ञानभिन्नकालस्मृत्यादिकारणबलान्मिथ्याज्ञानवासनाभिन्नवासनानाशेऽपि । ततः तत्त्वज्ञानभिन्नकारणतः । निषेधे हेतुमाह- सामान्यावच्छेदेनेति- “ विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्खयेति गीयते ॥” इति वचनाद् यत्सामान्यावच्छेदेन यस्य पाक्षिकप्राप्तिः- कारणान्तरेण सम्भवालोचनायामप्राप्तिस्तदनालोचने प्राप्तिः, तस्यां सत्यां नियमविधिर्भवतीत्यतः सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा ऋतौ भार्यामुपेयादित्यत्र नियमविधिवादिमते ऋतावेव भार्यामेव उपेयादेवेति, तत्र ऋतुकाले तद्भिन्नकाले च रागतो भार्यायां गमनं प्राप्तम् , तत्र यदा ऋतुभिन्नकाले गमनं तदा ऋतुकाले गमनं न प्राप्तम् , यदा च ऋतुकाले गमनं तदानीं प्राप्तमित्येवं पाक्षिकप्राप्तौ नियमः- ऋतावेवेति, एतावता ऋतावेव गमनस्य नियमः, स च भायां त्यक्त्वाऽन्याबलायामृतुमत्यां गमनेऽपि निर्वहतीत्यतो भार्यामेवेति नियमः, तत्रापि भार्याभिन्ना

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496