Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
३९७
कत्वं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव बोधयति, तत्र तस्योदासीनत्वात् । न च साक्षात् साधनताव्या( वि )धेः साधनताऽप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य न घटत इत्यपूर्व. वाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकतां बोधयितुं प्रगल्भत इति शङ्कापदं हृदि निधेयम् , सामान्यशब्दोऽन्यतमविशेषबाधे तं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावात् दृष्टान्तस्यैवासम्प्रतिपत्तेः, न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयस्तत्र दृष्टेन तत्त्वज्ञानेनैवोपपत्तावदृष्टकल्पनाया अन्याय्यत्वात् , लाघव सहकृतानुपपत्तिरेव तत्त्वज्ञानव्यापारकत्वे मानमिति वाच्यम्, तत्त्वज्ञानस्यापि व्यवहितत्वेन तत्रापि कर्मणोऽदृष्टद्वारावश्यकत्वाद् निःश्रेयसे द्वारद्वयकल्पने गौरवात् , निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाधनुष्ठानं स्यादिति चेत् ? स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्याक्षतेः, न च तत्त्वज्ञानत्वेनैव निषेधकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीति निषेधकोटिः । तत्र विप्रतिपत्तौ सत्यां निषेधकोटिसाधने । अयं तीर्थविशेषस्नानेत्यादिना वक्ष्यमाणः । तेषां तीर्थविशेषस्नान-महादान-यम-नियमादिकर्मणाम् । तत्र तीर्थविशेष स्नानादिकर्मणां तत्त्वज्ञानव्यापारकत्वे । तस्य शब्दस्य । न चेत्यस्य विधेयमित्यनेनान्वयः । “साक्षात् साधनताव्या(वि)धेः साघनताऽप्रतीतेः" इत्यस्य स्थाने “ साक्षात् साधनताबाधे विधेः साधनताप्रतीतिः" इति पाठो युक्तः, तथा च तीर्थविशेषस्नानादिकर्म गां मोक्षं प्रति कारणत्वं विधिवाक्यात् प्रतीयते, किन्तु तीर्थस्नानादिकर्मणां चिर. विनष्टत्वेन मोक्षाव्यवहितपूर्वक्षणेऽभावात् साक्षान्मोक्षं प्रति कारणत्वं न सम्भवतीत्येवं तेषां मोक्ष प्रति साक्षात् साधनताया बाधे सति विधे:-विधिवाक्यात् तेषां मोक्षं प्रति साधनताप्रतीतिः परम्परया कारणत्वविषयिणी, परम्पराकारणत्वं नाम स्वजनकव्यापारजनकत्वमिति परम्पराघटकव्यापारमविषयीकृत्य न घटते न सम्भवतीत्येवम्भूतार्थप्रतिपादनपरो योऽपूर्ववाच्यतान्यायो यथा स्वर्गकामो यजेतेत्यत्र विधरिष्टसाधनत्वार्थकत्वपक्षे यागस्य चिरविनष्टस्य कालान्तरभाविस्वर्गरूपेष्टं प्रति साक्षात् साधनत्वं न सम्भवतीति स्वर्गजनकव्यापारजनकत्वलक्षणपरम्पराकारणत्वमभ्युपेयमिति तदुघटकतयाऽपूर्वस्यादृष्टात्मकन्यापारस्य विधिवाच्यतेति तेन न्यायेन, शब्द एव विधिस्वरूपशब्द एव, वस्तुत. परमार्थतः, तीर्थविशेषस्नानादिकर्मणां तत्त्वज्ञान व्यापारकता बोधरितुं ज्ञापयितुं प्रगल्भते समर्थो भवतीत्येवस्वरूपं शङ्कापदं, हदि मानसे, न विधेयं न कर्तव्यमित्यर्थः । निषेधहेतुमाह- सामान्यशब्द इति- सामान्यवाचकशब्द इत्यर्थः । अन्यतमविशेषबाघे सामान्यधर्माकान्तयत्किञ्चिद्विशेषस्य बाधे सति । तं विशेषम् । त्यजति तदसाधारणरूपेण तं न बोधयति । न त्वित्यस्य बोधयतीत्यनेनान्वयः। विशेषान्तरं बाधितविशेषभिन्नविशेषम् । तं विशिनष्टि- उपादिरिलतमपीतिउपादातुमिष्टमपीत्यर्थः । विशिष्य न तु बोधयति तदसाधारणरूपेण न बोधयति । कथं न बोधयतीत्यपेक्षायामाहइति स्वभावादिति- यस्य शब्दस्य यत्रार्थे येन रूपेण शक्तिः स शब्दस्तेनैव रूपेण तस्य बोधक इति सम्भवादित्यर्थः। दृष्टान्तस्यैवासम्प्रतिपत्तेरिति- स्वर्गकामो यजेतेत्यत्रापि यागस्य स्वर्ग प्रति साक्षाजनकत्वस्य बाधे साक्षाजनकत्वरूपेण तमेव विधिर्न बोधयति, न तु परम्पराजनकत्वरूपेण परम्पराजनकत्वं बोधयति, उक्तस्वभावादित्यपूर्ववाच्यतादृष्टान्तस्यानभ्युपगमादित्यर्थः । न चेयस्य वाच्यमित्यनेनान्वयः। कर्मणां तीर्थविशेषस्नानादिकर्मणाम् । व्यापारः मोक्षरूप कार्यजनने व्यापारः। तत्र व्यापारस्यावश्यकत्वे । लाघवेति - उपस्थितिलाघवेत्यर्थः । निषेधे हेतुमाह-तत्त्व. ज्ञानस्यापीति- तत्त्वज्ञानान्तरमेव मुक्तिर्न भवति किन्तु तत्त्वज्ञानेन मिथ्याज्ञानस्य सश्चितकर्मणां च क्षये सत्यपि भोगमात्रविनाश्यप्रारब्धकर्मणां भोगाद् विनाशे सति मुक्तिर्भवतीत्येवं तत्त्वज्ञानस्यापि व्यवहितत्वेनेत्यर्थः, अथवा तत्त्वज्ञानलक्षणव्यापारात्मककार्यस्यापि तीर्थविशेषस्नानादिकर्मणोऽनन्तरमेवानुत्पत्तेः, किन्तु कालान्तरमुत्पत्त्या तन्मध्यपतितकालप्रयुक्तव्यवधानाश्रयत्वेनेत्यर्थः, अयमेवार्थ उत्तरग्रन्थसङ्गत्याऽऽदरणीयः। तत्रापि तत्त्वज्ञानोत्पत्तावपि । निःश्रेयसे मोक्षरूपकायें । द्वारद्वयकल्पने तत्त्वज्ञानरूपव्यापार एकः, अपरश्च तत्त्वज्ञानार्थमदृष्टरूपव्यापार इत्येवं व्यापारद्वयकल्पने गौरवात् , अतोऽदृष्टद्वारैव कर्मणां मोक्ष प्रति कारणत्वमित्यर्थः । ननु तत्त्वज्ञानद्वारा मोक्षं प्रति कर्मणां कारणत्वे तत्त्वज्ञानान्तरं न कर्माण्यनुष्ठेयानि तत्त्वज्ञानपूर्ववर्तिकर्मभ्य एव तत्त्वज्ञानद्वारा मोक्षो

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496