Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 466
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । ३९५ स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासद्महादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्कर कारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता ) तत्र तत्र प्रतिपादिता, इत्यधिकं धर्मपरीक्षायां ॥ १२८ ॥ क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः। मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ १२९ ॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥ १३१ ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः।। मद्यपास्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ १३३ ॥ - ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्!न श्रद्दधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥ कार्येत्यन्वयः। अनग्राहिकादिनेति- शृङ्ग हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्गग्राहिकान्यायः प्रवर्तते । स्वपरेति-"नापेक्षयव" इत्यस्य स्थाने "चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वनेत्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तम्मलेति- परसमयस्थाकरणनियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः। “दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु ग्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह- इत्यधिक धर्मपरीक्षायामिति ॥ १२८ ॥

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496