Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 467
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । प्रायः सम्भवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो, ज्ञाने चारित्रवर्जिते ॥ १३७ ॥ क्षायिक केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद् यावच्छैलेश्यां शुद्धसंयमः ॥ १३८ । व्यवहारे तपो-ज्ञान-संयमा मुक्तिहेतवः ।। एकः शब्द सूत्रेषु, संयमो मोक्षकारणम् ॥ १३९ ॥ सङ्ग्रहस्तु नयः प्राह, जीवो मुक्तः सदाशिवः । अनवाप्तिभ्रमात् कण्ठस्वर्णन्यायात क्रिया पुनः॥ १४०॥ अनन्तमर्जितं ज्ञानं, त्यक्ताश्चानन्तविभ्रमाः। न चित्रं कलयाप्यात्मा, हीनोऽभूदधिकोऽपि वा ॥ १४१ ॥ धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः। चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ १४२ ॥ सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौघैः। गुरुचरणकृपातो योजयंस्तान् पदे यः, परिणमयति शिष्यांस्तं वृणीते यशःश्रीः॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गुणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ १४४॥ नयामृत०-"क्रियानयः" क्रियानय इत्यादयः श्लोकाः प्रायः स्पष्टाः । अत्र ज्ञान-कर्मसमुच्चय. वादे स्व-परसमयविचारः कश्चिल्लिख्यते- तत्र मुमुक्षुकर्मव्यापारतन्त्रं तत्त्वज्ञानवृत्ति नवेति विप्रतिपत्तिः, विधिकोटिरुदयनाचार्याणां निषेधकोटिर्भास्करीयाणाम् , तत्र भास्करीयाणामयमाशयः- तीर्थविशेष. स्नान-महादान-यम-नियमादिकर्मणां निःश्रेयसकारणत्वं तावच्छब्दबलादेवावगम्यते, तत्त्वज्ञानव्यापार एकोनत्रिंशदुत्तरशततमात् "क्रियानयः" इत्यादि पद्यादारभ्य चतुश्चत्वारिंशदुत्तरशततमं-"गच्छे.” इत्याद्यन्तिमश्लोकं यावत् षोडशसङ्खयपदकदम्बकं स्पष्टार्थत्वान्न व्याख्यानमपेक्षत इत्याह-क्रियानयः इत्यादय इति । अत्र अस्मिन् प्रकरणे । स्व-परसमयविचार: जैनसिद्धान्त-नैयायिकादिसिद्धान्तविचारः । तत्र स्व-परसमयविचारे । "तन्त्रं" इत्यस्य स्थाने "तत्त्वं" इति पाठो युक्तः । विधिकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीति विधिकोदिः।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496